भारतस्य राष्ट्रपतिपदं प्राप्तुम् रास्वसंघप्रमुख: मोहनभागवतवर्यं ॠत्वा अन्य: कोsपि योग्य: नास्ति, इति शिवसेनापक्षत: पुनरुच्चारं कृतम्। मुंबईनगरे पत्रकारानाम् सह शिवसेनादलस्य कार्याध्यक्ष: उद्धवठाकरेवर्य: वार्तालापं कृतवान्। प्रसंगेsस्मिन् स: अकथयत् यत् यदि रास्वसंघप्रमुख: वाञ्छति चेत् किमपि भवितुम् शक्यते।
"अधुना रास्वसंघप्रमुखं ॠत्वा अन्यम् कमपि वयं न पश्याम: य: राष्ट्रपतिपदं अधिगन्तुमर्हति," इति स: अकथयत्।
नैका: नेतार: रास्वसंघेन राज्यपालरूपेण नियुक्ता:। तत: भागवतवर्यस्य राष्ट्रपतिपदग्रहणार्थं का बाधा वर्तते, इति प्रश्नमपि स: अपृच्छत्।
शरदपवार: अपि राष्ट्रपतिपदस्य अभ्यर्थी अस्ति इति पृष्ट्वा स: उत्तरं अददात् यत् क: किं इच्छति एतद्विषये अहं किमपि वक्तुम् न इच्छामि। अस्मिन् विषये अस्माकं का अपि चर्चा न अभवत्।
Apr 25, 2017
मोहनभागवतवर्यं ॠत्वा अन्य: कोsपि राष्ट्रपतिपदं न अर्हति - शिवसेना
Subscribe to:
Post Comments (Atom)
-
एकस्य ग्रामस्य कश्चित् निवासी स्वकीयं परिजनान् कुटीरात् निष्कास्य स्वकीयं सुदृढ़ं गृहस्य उपलब्धि: दत्तवान्। तस्य परिजना: कुटीरे जीवनं यापितव...
-
भारतस्य राष्ट्रपतिपदं प्राप्तुम् रास्वसंघप्रमुख: मोहनभागवतवर्यं ॠत्वा अन्य: कोsपि योग्य: नास्ति, इति शिवसेनापक्षत: पुनरुच्चारं कृतम्। मुंबईन...
-
निर्वाचनं नाम लोकतन्त्रस्य उत्सवः। अस्मिन् उत्सवे जनाः उत्साहेण भागं निर्वहन्ति। स्वविवेकं उपयुज्य एव तेभिः मतदानं करणीयं इति वयं चिन्तय...
No comments:
Post a Comment