Showing posts with label पुरस्कारः. Show all posts
Showing posts with label पुरस्कारः. Show all posts

Feb 4, 2010

‘जय हो’ अस्माकं खलु?

विश्वस्य प्रांगणे भारतस्य बहुशः प्रसिद्धतमः संगीतकारः ए. आर. रहमानः बहुमानिताः पुरस्काराः प्राप्यते, आनंदम् जनयति खलु। ऑस्करद्वयं हस्तगतं कृत्वा वर्षानंतरम् रहमानं ग्रॅमीसन्मानः संप्राप्तम् भारतदेशस्य नागरिकानां कृते अभिमानदायकम् एव वर्तते। अविराम ईदृशानि पुरस्काराः जेतुम् न सुलभम् कार्यम्। ईश्वरः महान् अस्ति, इ्त्युक्त्वा रहमानेन स्वयशस्य महती वर्धिता।

तथापि, रहमानं एषाः  पुरस्काराः प्रदातुम् उचितम् अस्ति वा, शंकनीय खलु। स्वस्य तमिल भाषायां हिंदी भाषायां च रहमानेन असंख्यातानि गीतानी रचितानि। अनेकानि गीतानि तु इदानीमपि लोकप्रियानि सन्ति। कतिपय चलच्चित्रायाम् विद्यन् रहमानस्य संगीतमाधुर्यं स्लमडॉगस्य अपेक्षाया बहुवारं उत्तमम् वर्तते।
तथापि, स्लमडॉग मिलिनियेर चलच्चित्रं एव परकीय प्रेक्षकानाम् समीक्षकानाम् अपि अरोचत्। तदा तस्यां अज्ञानमेव दृश्यते। अपि च केनचित भारतीय दिग्दर्शकेन चित्रीतम् चलच्चित्रं ईदृशी सफलतां पश्यन् शक्नुते वा एतदपि प्रश्नः।