Showing posts with label समाचारपत्रम्. Show all posts
Showing posts with label समाचारपत्रम्. Show all posts

Mar 29, 2018

इयं स्थिति न समीचीनम्।

सर्वे जनाः राजकीय क्षेत्रं अधिकाराकाङ्क्षया एव प्रविशन्ति। अहं शासकः भविष्यामि, सांसदः भविष्यामि, मन्त्री भविष्यामि इति सर्वे चिन्तयन्ति। मन्त्रीपदं वा अद्य मुख्यमन्त्रीपदं प्राप्त्यर्थं जनाः किं न कुर्वन्ति?  सर्वेषाम् आकाङ्क्षा इत्येव वर्तते। यः मन्त्रित्वम् प्राप्नोति सः मुख्यमन्त्रिः भवितुम् इच्छति। अतः मन्त्रित्वकाङ्क्षिणः सदा मुख्यमन्त्रिणो वा प्रधानमन्त्रिणो वा द्वारे तिष्ठन्ति। 
केचन मन्त्रिणो तथा वर्तन्ते ये सदा भीताः सन्ति। स्वपदं नश्येत् इति तेषां भयम्। ग्रामं ग्रामं च गृहं गृहं गत्वा जनसमस्यां अवगन्तुम् मन्त्रिणां कर्तव्यम् वर्तते।
मन्त्री यः वा को वा भवतु, प्रजानां स्थितिः सदा सैव। मन्त्रिणां स्थितिः उत्तमा भविष्यति। तत्र न संशयः। मन्त्रिणः के अपि भवन्तु नाम, अस्माकं किं प्रयोजनम् इति जनाः तूष्णीं स्थास्यन्ति। लोकतन्त्रस्य कृते इयं स्थिति न समीचीनम्।

Oct 22, 2017

पत्रकाराः अपायाश्च

प्रपञ्चे सर्वत्र पत्रकाराः अपाये वर्तन्ते इति प्रतीतायते। पत्रकाराः नाम विशिष्टा जनाः। महता कष्टेन  ते नानाप्रदेशेषु गच्छन्ति, नानाविधान् कार्यम् कुर्वन्ति च। स्वप्राणान् अपि अगणयित्वा वृत्तान्तान् संगृह्णन्ति, जनेभ्यः समक्षम् प्रदर्शयन्ति च। 
जनेभ्यः सत्यं वक्तव्यम् इति वृत्तान्तपत्रिकाणाम् प्रथमम् कर्तव्यम्। प्रवाहैः परिप्लुते स्थले गत्वा विषयान् ज्ञात्वा चित्राणि संगृह्य ते शीघ्रम् जनेभ्यः नित्यम् निवेदयन्ति। नैतावदेव। यदा सर्वकारः कर्तव्यपालने स्खलति, यदा मन्त्रिणो वा अधिकारिणो वा भ्रष्टाचारम् कुर्वन्ति, यदा च स्वजनपक्षपातेन निर्णयान् विदधति तदा पत्रकाराः तान् प्रकाशे नीत्वा जनविदितान् कुर्वन्ति। एतादृशे सन्दर्भे प्रदर्शितदोषैः क्रुद्धाः प्रबलाः जनाः पत्रकारानाम् शत्रवो भवन्ति। येन केनापि मार्गेन पापिनः पत्रकाराणाम् मौनम् साधयितुम् प्रयतन्ते। प्रलोभनेन वा त्रासनेन वा पत्रकारान् दमयितुम् यदा न शक्नुवन्ति, तदा प्रबलाः शक्तयः पत्रकाराप्राणहरणे अपि प्रवर्तन्ते। प्रपञ्चस्य नानाराष्ट्रेषु पत्रकाराः एवम् हताः। भारतवर्षे अपि तादृशानि प्रकरणानि अभूवन्, भवन्ति च। यदा पत्रकाराणाम् वदन पिधीयते, तदा नास्ति प्रजाप्रभुत्वम्। प्रजाप्रभुत्वस्य रक्षायै पत्रकारेभ्यः सुरक्षा प्रदेया। ते हि दोषप्रख्यापनेन सर्वकारम् शोभने समीचीने पथि निनीषन्ति। पत्रकाराणाम् क्षेमम् यदा सर्वकारो वहति, तदैव प्रजाप्रभुत्वम् रक्षितम् भवति।
पत्रकारः एतादृशः भवेत् यः दुष्टान् भ्रामयति स्म किन्तु सज्जनानां सदैव मार्गदर्शनं करोति। समाजे व्याप्तानि दूषणानि प्रकटियुतम् दायित्वम् पत्रकाराणां अस्ति। सामाजिकैक्यस्य सामरस्यस्य देशस्य ऐक्यस्य अखण्डतायाः च कृते स्वकीयां भूमिकां ते निर्वहेयुः।    

May 4, 2017

पाठकाः समाचारपत्रानि च

 समाचारपत्रस्य महत्त्वम् तु सर्वाः जानन्ति एव। आधुनिकविज्ञानस्य उपहारं वर्तते इदम्। समाचारपत्रस्य व्यवस्थितं प्रकाशनं भूत्वा नैकाः शतवर्षाः अभवन्त। तदनु सर्वेषु देशेषु तस्य प्रचारोऽभवत्। अधुना तु समाचारप्राप्त्यर्थं समाचारपत्रं एकमेव साधनं नास्ति।  
अद्य पाठकानाम् मनोनुकूलम् अनेके स्तम्भा: सीमिता: अभवन्। नवीना: संचारं साधनानाम् उपयोगस्य पश्चात् अपि पत्रं पत्रिकाणां स्तम्भा: च तेभ्य: लिखमानानां महत्वं भविष्यति। अतएव पाठकस्य भूमिका अपि अल्पा नैव भविष्यति। 
यत् अद्य पत्रकारिताया: स्थिति: एतादृशी अस्ति यत् 'प्राणा: निसृता:, परञ्च श्वासं शेषम् सम्प्रति अस्ति'' कथितुम् आशय: पत्रकारिताया: प्राणं तत्वम् अल्पम् अवश्यम् अभवत् परञ्च सम्प्रति स्थितम् अस्ति। समयेन सह परिवर्तनं भूतानि। पाठक: समाचारं पत्रस्य मूलम् अस्ति। 
समाचारपत्रेषु पाठकस्य महत्वपूर्णं स्थानम् अस्ति। समाचारपत्रे पाठकानां विचारेभ्य: अधिकं स्थानं सुरक्षितं स्थापितवान्।