Showing posts with label पुस्तकं. Show all posts
Showing posts with label पुस्तकं. Show all posts

Oct 19, 2017

अस्माकम् ज्ञानम्

 भारतभूम्यां प्राचीनकाले यानि वस्तूनि अनुसंधानं कृतानि, तेषु एव अधुना अनुसंधानं भवति। पुष्पक विमानेन नीत्वा ब्रह्मास्त्रपर्यन्तस्य उल्लेखाः वयम् अस्माकं उल्लेखाः प्राचीनेषु ग्रन्थेषु मिलति। आधुनिकविज्ञानस्य यात्रा प्राचीनतमम् ज्ञानम् प्रति एव अस्ति, एवमपि कथयितुम् शक्यते। प्रसिद्धः आंग्ललेखकः डेन ब्राऊन स्वस्य 'दि लोस्ट सिम्बोल' इति पुस्तके लिखितवान् यत् वयम् प्राचीनम् ज्ञानम् एव पुनरपि अध्ययामः।विशेषतया भारतदेशात् एव अस्माकम् एवंविधम् ज्ञानम् प्राप्तुम् शक्यते, एवमपि सः लिखितवान्। 
अधुना शास्त्रेषु उल्लेखिताः सर्वे संस्कारा: विज्ञानपद्धत्या वर्तन्ते। इयम् पुरापरम्परा एव अंतरिक्षविज्ञानरूपेण अस्माभिः अग्रे नीता अस्ति। इदानीम् भारतेन एकत्वेन १०४ उपग्रहाः प्रक्षेपिताः सन्ति यस्मात् नव विश्वकीर्तिमानः स्थापितः।
सहस्रान् वर्षान् यावत् भारतवासिनः ज्ञानोपासकाः सन्ति। नानाविधशास्त्राणि तेभ्यः अधीतानि अस्ति। एतस्य ज्ञानस्य प्रमाणानि स्थाने-स्थाने, पदे-पदे दृश्यन्ते। न हि ज्ञानेन सदृशम् पवित्रमिह विद्यते एतत् वाक्यम् अस्माकम् देशस्य प्राणः वर्तते। ज्ञानमात्रेण सर्वपापक्षयः, ज्ञानात् एव उत्कर्षः भवति एषा उक्ति प्रसिद्धा अस्ति।
अस्य ज्ञानस्य अद्भुताविष्कारः अस्ति आयुर्वेदः। लक्षशः ज्ञानकणानि इतस्ततः वर्तन्ते। तेषाम् परिपालनम् संरक्षणम् च आवश्यकमस्ति। विशेषताया यत् स्थानम् आयुर्वेदाय प्राप्तुम् अर्हते तत् स्थानम् तम् अद्यावधि न प्राप्तम्। 

Aug 3, 2016

राष्ट्रविरोधकानाम् पाठं पाठयितुम् आवश्यकम् - पर्रिकरः

पुणे - राष्ट्रराजधान्यां स्थित्वा कथमेव जनाः राष्ट्रविरोधवक्तव्यं कर्तुम् साहसं धारयन्ति। येन केनापि समर्थनम् न चेत् एवं न संभवते। भविष्यकाले राष्ट्रविरोधवक्तव्यं कर्तुम् जनानाम् पाठं पाठयितुम् आवश्यकमस्ति, इति राष्ट्रसंरक्षणमंत्रीवर्येण मनोहरपर्रिकरेन पुणेनगरे उक्तम। 
संरक्षणविषयाभ्यासकेन नितीनगोखलेवर्येण लिखितम् ‘सियाचिन - धगधगते हिमकुंड‘ इति मराठी अपि च हिंदी भाषायाम् अनुवादितानि पुस्तकानि मोचयन् पर्रीकरवर्यः स्वविचारान् प्रकटितवान्। लेफ्टनंट जनरल संजयकुलकर्णीः (अवकाशप्राप्तः), एअर मार्शल भूषणगोखलेः (अवकाशप्राप्तः),'पुणे इंटरनॅशनल सेंटर' संस्थाउपाध्यक्षः डॉ. विजयकेळकरः अन्ये च गणमान्याः अवसरेsस्मिन् उपस्थिताः आसन्त। पत्रकारः प्राध्यापकश्च विनयचाटीः एतत्पुस्तकस्य अनुवादकः अस्ति।
पर्रीकरवर्येण उक्तम् यत राष्ट्रनागरिकाः राष्ट्रप्रेमस्य प्रथमं पाठं स्वगृहे एव पठन्ति। ततः येन केन अपि राष्ट्रविरोधवक्तव्यं कृतम् चेत् ते सोढुं न शक्नोन्ति।
“केनचित् अभिनेताभार्याया यत् राष्ट्रविरोधी कथनम् कृतम् तत् जनानाम् न रुचितम् आसीत्। जनाः स्वयंस्फूर्त्या एव तस्य विरोधं कृतवन्त। कतिपय जनाः तस्य अभिनेताया अभिनितं विज्ञापितम् उत्पादनाः बहिष्कृतवन्तः। ततः विचारयामि यत् जनाः स्वयंमेव राष्ट्रविरोधकानाम् पाठं पाठयिष्यन्ति।,” एवमपि सः कथितवान्।
तेन उक्तम्, "सैन्यदलेsस्मिन् सैनिकानाम् नाहं सेवकभावेन पश्यामि, अपि तां राष्ट्ररक्षकाः भावयामि। अन्य राष्ट्रापेक्षया भारते जनाः सेनाधिकारीनाम् आदरं दातुमुद्युक्ताः सन्ति। यः को अपि भाटकस्योपरि आक्रमणं करोति चेत् तं तथैव प्रत्त्युत्तरं दातुम् आवश्यकमस्ति। एतद्विषये विरोधः न कर्तव्यः। अस्माकं कृते प्रतिसैनिकः माणिकमिव अस्ति यं वयं वञ्चितुम् न शक्यामः।”
भूषणगोखलेः अकथयत् यत्, "व्यूहरचनादृष्टया तथा च भौगोलिकदृष्टया सियाचिनप्रदेशः महत्त्वपूर्णः अस्ति। अतरेव पाकिस्तानचीन देशादयस्य दृष्टि तस्योपरि वर्तते।‘‘