Showing posts with label भारतः. Show all posts
Showing posts with label भारतः. Show all posts
Jan 26, 2019
देशस्य
सर्वान् अपि नागरिकान्
प्रजाप्रभुत्वदिनस्य शुभाशयान्
दातमु अहम् इच्छामि।
प्रजाप्रभुत्वदिनं संवैधानिकाधिकारान् च कर्तव्यान्
प्रति जागरूका:
भवितुं
प्रसङ्गः वर्तते। संवैधानिकं
मूल्यानां रक्षाया:
संकल्प:
नेतुं
पर्वम् अस्ति एतत्।
अस्माकं
कर्तव्यं वर्तते यत् प्रदेशस्य
विकासे सहभागिन:
वयं
भवामः। प्रत्येक:
नागरिक:
स्व
कर्तव्यानां पालनं कुर्यात्
यस्मात् देशः अग्रे वर्धापयेत्।
एतत् प्रसङ्गः सामान्यजनानाम्
आकाङ्क्षाणां उत्सवः अस्ति।
प्रजाप्रभुत्वदिनस्य उत्सवः
स्वकीयाधिकारविषये जागरूकाः
भवितुं,
कर्तव्यान्
प्रति च संवेदनशील:
भवितुम्
अवसर:
अस्ति। वत्सरे अस्मिन् गणतन्त्रदिनम् शनिवासरे आगतम् अस्ति।
भारतदेशः १९४७ तमवर्षस्य आगष्ट्मासस्य १५ दिनाङ्के स्वतन्त्रः अभवत् । अनन्तरं प्रजाप्रभुत्वरीत्या अत्र प्रशासनं चलति स्म । यदा संविधाननिर्माणकार्यं समाप्तम् अभवत् तदा संविधानम् अङ्गिकृत्य देशे १९५० तमे वर्षे जनवरीमासस्य २६ दिनाङ्के भारतदेशं प्रजाप्रभुत्वराष्ट्रामिति धोषितवन्तः । तद्दिनादाराभ्य भारतदेशे भारतीय-संविधानरीत्या प्रशासनं प्रचलति ।
Jan 17, 2019
भारतीयसंस्कृते: मूलम्
समाजे परस्परसद्भावना, साम्प्रदायिकी शान्ति: च बन्धुत्वम् एव अस्माके भारतीयसंस्कृते: मूलम् अस्ति। विश्वे भारतम् एव केवलम् एतादृशः देशः अस्ति यत्र एतावत् विशालं वैविध्यं दृश्यन्ते। प्रत्येकस्य राज्यस्य स्वस्य परम्परा:, भाषा: तीज उत्सवा: सन्ति। तथापि ते सर्वेः एकत्त्वं प्रकटयन्ति एव। एतेषां फलस्वरूपम् एव पारस्परिकम् एकता। भारतदेशे समाजे भिन्नता: भवितुं नाम, तथापि अखिलः देशः त्रिवर्णध्वजस्य अध: एकत्त्वभावने स्थितः अस्ति। विश्वं भारतस्य केवला आर्थिकी शक्ते: नैव प्रत्युत् अत्रत्य अनेकतायाम् एकता, बन्धुत्वं च शान्ति: सदृशं मूल्यानां प्रशंसक: अस्ति। एते अस्मिन् प्राचीनदेशे एकतायाः नानारूपाविष्कारं दृश्यते। एतदेव अस्ति विश्वे भारतस्य परिचयम्। एषा विविधता एव भारतीयसंस्कृतिं सुदृढ़ा करोति एवमपि कथितुम् शक्यते। नैकाः शक्तयः वर्तन्ति ये अस्माकम् एतद् परिचये प्रहारं कर्तुं प्रयासं कुर्वन्ति परं च अस्माकं स्वभावम् एतादृशम् अस्ति यत् अस्माकं विचारधारायां कदापि दुर्विचारं नैव आगच्छति। एतेषां फलस्वरूपम् एव पारस्परिकम् एकता अस्ति।
Apr 18, 2018
निर्वाचनं नाम लोकतन्त्रस्य उत्सवः
निर्वाचनं नाम लोकतन्त्रस्य उत्सवः। अस्मिन् उत्सवे
जनाः उत्साहेण भागं निर्वहन्ति। स्वविवेकं उपयुज्य एव तेभिः मतदानं करणीयं इति वयं
चिन्तयामः।
अपि तु अधुना धनलोभेण, वस्त्रलोभेण मद्यलोभेण वा मतदानं कारयितुम् प्रयासाः भवन्ति। नैकाः आमिषाः
दत्त्वा केचनाभ्यार्थिना मतं प्राप्तुम् प्रयासाः कार्यन्ते। एतादृशाः प्रलोभनाः वर्जनीयाः इति शिक्षिताः जनाः कथयन्ति। धनादिना वस्तुभिः मोहिताः प्रजा मतं दातुं न अर्हन्ति।
य़ः कः अपि न्यायमार्गेण प्रजासेवां कर्तुम् उद्युक्तः अस्ति तस्मै एवं मतं देयम्। यस्य कर्माः योग्याः प्रतीयन्ते तमेव मतं दातव्यम्। अभ्यर्थिनां
योग्यत्वं परिशील्य मतं देयम्। तस्य शीलं मुख्यं, न तु कुलम्। न तु तस्य जातिर्गणनीया।
अपि च को अपि नागरिकः मतदानं अकृत्वा न स्थातुम् अर्हति। मतदानं नाम नागरिकस्य पवित्रं कर्तव्यम्, लोकतन्त्रस्य प्रथमं चरणम्। तं आधारीकृत्य एव प्रजाप्रभुत्वम् भवन्ति। ममैकस्य मतेन किम् भविष्यन्ति इति केनापि न चिन्तनीयम्। बिन्दुभिरेव सिन्धुः
सम्पद्यते। राष्ट्रनिर्माणे एकैकस्यापि बलं अपेक्षितम् अस्ति।
Dec 17, 2017
श्वः किं भविष्यति?
एकं विश्वं वर्तते यत् निर्वाचनपरिणामस्य अनुमाना:, भविष्यवाणी तथा च वदन्त्याम् आधृत्य एव जीवति। अस्मिन् विश्वस्य नागरिका: के? स्वयंमन्या: राजनीतिनिरीक्षका:, पत्रकारा:, ज्योतिषय: तथा च अन्या। एतादृशी अपि जना: सन्ति ये यत्र प्रचलति, तत्रत: शतयोजनं दूरे वसति सति अपि तत्रस्था: मतदातार: किं इच्छन्ति एवं शपथेन कथयन्ति। इदानीमपि एवमेव वर्तयन् अस्ति। वास्तवात् किं भविष्यति, इति मतदानयन्त्रानि एव जानन्ति।
Oct 19, 2017
अस्माकम् ज्ञानम्
भारतभूम्यां प्राचीनकाले यानि वस्तूनि अनुसंधानं कृतानि, तेषु एव अधुना अनुसंधानं भवति। पुष्पक विमानेन नीत्वा ब्रह्मास्त्रपर्यन्तस्य उल्लेखाः वयम् अस्माकं उल्लेखाः प्राचीनेषु ग्रन्थेषु मिलति। आधुनिकविज्ञानस्य यात्रा प्राचीनतमम् ज्ञानम् प्रति एव अस्ति, एवमपि कथयितुम् शक्यते। प्रसिद्धः आंग्ललेखकः डेन ब्राऊन स्वस्य 'दि लोस्ट सिम्बोल' इति पुस्तके लिखितवान् यत् वयम् प्राचीनम् ज्ञानम् एव पुनरपि अध्ययामः।विशेषतया भारतदेशात् एव अस्माकम् एवंविधम् ज्ञानम् प्राप्तुम् शक्यते, एवमपि सः लिखितवान्।
अधुना शास्त्रेषु उल्लेखिताः सर्वे संस्कारा: विज्ञानपद्धत्या वर्तन्ते। इयम् पुरापरम्परा एव अंतरिक्षविज्ञानरूपेण अस्माभिः अग्रे नीता अस्ति। इदानीम् भारतेन एकत्वेन १०४ उपग्रहाः प्रक्षेपिताः सन्ति यस्मात् नव विश्वकीर्तिमानः स्थापितः।
सहस्रान् वर्षान् यावत् भारतवासिनः ज्ञानोपासकाः सन्ति। नानाविधशास्त्राणि तेभ्यः अधीतानि अस्ति। एतस्य ज्ञानस्य प्रमाणानि स्थाने-स्थाने, पदे-पदे दृश्यन्ते। न हि ज्ञानेन सदृशम् पवित्रमिह विद्यते एतत् वाक्यम् अस्माकम् देशस्य प्राणः वर्तते। ज्ञानमात्रेण सर्वपापक्षयः, ज्ञानात् एव उत्कर्षः भवति एषा उक्ति प्रसिद्धा अस्ति।
अस्य ज्ञानस्य अद्भुताविष्कारः अस्ति आयुर्वेदः। लक्षशः ज्ञानकणानि इतस्ततः वर्तन्ते। तेषाम् परिपालनम् संरक्षणम् च आवश्यकमस्ति। विशेषताया यत् स्थानम् आयुर्वेदाय प्राप्तुम् अर्हते तत् स्थानम् तम् अद्यावधि न प्राप्तम्।
Jul 21, 2017
कोविन्दमहोदय: राष्ट्रपतिपदे निर्वाचित:
रामनाथ कोविन्दमहोदय: राष्ट्रपतिपदे निर्वाचित: अस्ति एवम् महती आनन्दम् जनयति। अस्य कृते शुभाशया शुभकामना: च दातुम् अर्हते।
कोविंदवर्य: विधि: मर्मज्ञ: विद्वान् च सन्ति। सार्वजनिकं जीवने नैतिकताया: उच्चं मानदण्डं स्थापितं कृतवान्। राष्ट्रपते: रूपे कार्यं कुर्वन् तस्य हस्तयो: भारतीयं लोकतंत्रस्य मान्या परम्परा: इतोपि समृद्धा: भविष्यन्ति, इति आशामहे।
Apr 21, 2017
भाजपस्य विजयाभियानम् अप्रतिहतम्
महाराष्ट्रराज्ये भारतीयजनतापक्षस्य विजयाभियानम् अप्रतिहतरीत्या प्रचलति। राज्ये महानगरपालिकायाः निर्वाचनं गते गुरुवासरे अभवत्। तन्मध्ये द्वे महानगरपालिकायायां भाजपदलेन जयम् प्राप्तमस्ति।
दिवंगतस्य केंद्रियमंत्री विलासरावदेशमुखस्य स्वग्रामे लातूरनगरे अपि भाजपदलः जेतारूपेण उद्भूतः अस्ति। तत्र ७० स्थानात् ४१ स्थानानि विजित्य भाजपेन नवेतिहासः लिखितः अस्ति। स्वातंत्र
प्राप्त्यानंतरम् काँग्रेसदलं पराजित्य यः कः अपि दलः अत्र सत्ताम् प्राप्तुम् एतत् अस्ति प्रथमः प्रसंगः।
चंद्रपूरनगरे अपि भाजपेन सत्तां हस्तगता। तत्र भाजपेन ६६ स्थानात् ३६ स्थानानि विजितानि।
परभणीनगरे काँग्रेसदलम् अनपेक्षिततया विजयं प्राप्तवान्। तत्र राष्ट्रवादीकाँग्रेसदलः पराजितः अस्ति।
Jul 15, 2010
नवचिन्हं सज्जितानि रुप्यकाणि
मुद्रासंकेतयितुम् सर्वदेशानि स्वकीय चिन्हानि निश्चितं कृतानि। तथापि भारतस्य मुद्राया संकेतम् नासित। विविधा भाषा स्वलिप्यनुसारेण एव लेखनं करोति स्म।
सूचना-प्रसारण मंत्री अंबिका सोनी अकथयत् यत् युनिकोड आधारेण स्वीकारोउपरांत देशांतरे सर्वजनानाम् एवं संस्थानाम् कृते तस्य उपयोगम् आवश्यक भवति। षड्मासादेव एतद् पूर्णतां गमिष्यति इति सा अकथयत्। देशाभ्यंतरे तस्य उपयोगं कर्तुम् द्विवर्षानि अपि गन्तुम् शक्यते।
नवचिन्हस्य आगमनं अस्मानं कति लाभं ददाति, न जानामि। तदापि जनानाम कृते स्वराष्ट्रस्य एकं मानचिन्हं जनयितुम् एतत् प्रसंग इति तु संतोषदायकम् खलु।
Feb 4, 2010
‘जय हो’ अस्माकं खलु?
विश्वस्य प्रांगणे भारतस्य बहुशः प्रसिद्धतमः संगीतकारः ए. आर. रहमानः बहुमानिताः पुरस्काराः प्राप्यते, आनंदम् जनयति खलु। ऑस्करद्वयं हस्तगतं कृत्वा वर्षानंतरम् रहमानं ग्रॅमीसन्मानः संप्राप्तम् भारतदेशस्य नागरिकानां कृते अभिमानदायकम् एव वर्तते। अविराम ईदृशानि पुरस्काराः जेतुम् न सुलभम् कार्यम्। ईश्वरः महान् अस्ति, इ्त्युक्त्वा रहमानेन स्वयशस्य महती वर्धिता।
तथापि, रहमानं एषाः पुरस्काराः प्रदातुम् उचितम् अस्ति वा, शंकनीय खलु। स्वस्य तमिल भाषायां हिंदी भाषायां च रहमानेन असंख्यातानि गीतानी रचितानि। अनेकानि गीतानि तु इदानीमपि लोकप्रियानि सन्ति। कतिपय चलच्चित्रायाम् विद्यन् रहमानस्य संगीतमाधुर्यं स्लमडॉगस्य अपेक्षाया बहुवारं उत्तमम् वर्तते।
तथापि, स्लमडॉग मिलिनियेर चलच्चित्रं एव परकीय प्रेक्षकानाम् समीक्षकानाम् अपि अरोचत्। तदा तस्यां अज्ञानमेव दृश्यते। अपि च केनचित भारतीय दिग्दर्शकेन चित्रीतम् चलच्चित्रं ईदृशी सफलतां पश्यन् शक्नुते वा एतदपि प्रश्नः।
Subscribe to:
Posts (Atom)
-
एकस्य ग्रामस्य कश्चित् निवासी स्वकीयं परिजनान् कुटीरात् निष्कास्य स्वकीयं सुदृढ़ं गृहस्य उपलब्धि: दत्तवान्। तस्य परिजना: कुटीरे जीवनं यापितव...
-
प्रपञ्चे सर्वत्र पत्रकाराः अपाये वर्तन्ते इति प्रतीतायते। पत्रकाराः नाम विशिष्टा जनाः। महता कष्टेन ते नानाप्रदेशेषु गच्छन्ति, नानाविधान् क...
