Showing posts with label व्यक्तिगतम्. Show all posts
Showing posts with label व्यक्तिगतम्. Show all posts

Nov 13, 2017

परिवर्तनं नाम सृष्टिनियमः


चीनदेशस्य विद्वान् कन्फ्यूशियसः कथयति यत् ये कदापि न परिवर्तयन्ति ते बुद्धिमानाः सन्ति अथवा तु ते अतिमूर्खाः सन्ति। विचारस्य दृढता श्लाघनीया एव अस्ति, तथापि देशकालपरिस्थित्यानुसारेण परिवर्तनं अपि साहाय्यकं भवति। समयेन सह परिवर्तनं स्वाभाविकं वर्तते।
परिवर्तनं सदैव आव्हानात्मकं वर्तते, न कदापि सुलभं। परिवर्तनं कारयनं अनिच्छुकाः वयं सर्वे यदा कदा वा तस्य प्रतिकारः कुर्यामः। एतत् निश्चितं अस्ति यत् तथा कृतेन वयं सचेताः भवामः, न तु बुद्धिहिनाः। स्वप्राणरक्षणं प्रत्येकस्य जीवस्य अधिकारः वर्तते। तथैव केनापि परिवर्तनेन आत्मनि कुठाराघातं नैव भवेत्, इति सावधानतया वर्तयितुम् कर्तव्यः वर्तते।


सामान्यतया समायोजनस्य आवश्यकता कदा वर्तते एवं वयं जानामः। तत् कृतीं करणार्थं वयं कालहरणं अपि कुर्यामः येन तस्य समयं अग्रे प्रेषयितुं शक्यते। तस्मात् अपि एवं कथितुम् शक्यते यत् वयं सुज्ञाः स्मः?
अस्मात् केचित् जनाः एव नवताविरोधस्य कृते ‘सुज्ञता’ शब्दं प्रयोक्तुम् शन्नोन्ति। किमपि परिवर्तनं सम्मुखी कर्तुं अस्माकं इच्छा अस्ति वा न वा, तत् परिवर्तनं भविष्यति एव। त्वं निमित्तमात्रः भव इति भगवद्गीतायां श्रीकृष्णेन एव कथितं अस्ति ननु। देवाभिःवयं लाभं प्राप्तुम शक्नुमः येन स्वस्य विचाराः अस्माभिः साकाराः कर्तुं शक्यन्ते।

दृष्टिकोणे परिवर्तनम् कृत्वा एव जीवने अद्भुतं परिवर्तनं कर्तुं शक्यते केनापि। परिवर्तनं नाम सृष्टिनियमः। तस्य स्वागतं एव कर्तव्यम्।

Nov 7, 2017

देवदर्शनात् देशदर्शनं

देवदर्शनं भारतीयजनानां कृते महत्त्वपूर्णं अस्ति। देवस्य दर्शनं कर्तुम् जनाः तीर्थस्थलं सन्दर्शयन्ति। ततः ते तीर्थयात्रा कुर्वन्ति तस्मात् च तीर्थयात्राया एव देशदर्शनं कुर्वन्ति। इतिहासपूर्वकालात् एव जनतायाः अभ्यासः आसीत् अयम्। यात्रायाः मार्गः कदापि न सुलभः आसीत्। एवंविधे अपि जनाः प्राचीनकालात् एव गमयन् आसन्तः। अधुना तु यात्रासौकर्यात् ते परस्परप्रदेशं वारंवारं गच्छन्ति। एकस्मात् अधिकं स्थानानां भ्रमणं कर्तुं नैकाः जनाः सन्ति। कतिपयजनाः मम परिचिताः सन्ति ये प्रतिवर्षं अनन्यतमं नवं स्थानं गच्छन्ति। एतत्कारणादेव देशे पर्यटनोद्योगः वर्धयन् अस्ति।
अनेकानि तीर्थस्थलानि सन्ति येषां समीपे स्थितानि ऐतिहासिकस्थानानि अपि दर्शनीयानि सन्ति। तेषां दर्शनात् अनायासेन एव देशदर्शनं अपि भवति। यात्रिण: तीर्थस्थानस्य विषये विवरणानि लभ्यते।
अस्माकं देशः अद्भुतः अस्ति। अत्र सर्वे धर्मा: च समुदायानां जना: मिलित्वा शान्तिपूर्वकं वसन्ति। प्रत्येकस्य राज्यस्य का अपि विशेषता वर्तते। यथा महाराष्ट्रराज्ये नैकाः दुर्गाः सन्ति, तमिलनाडुराज्ये दर्शनीयानि देवालयानि सन्ति। केरलप्रान्तेऽस्मिन् नारिकेलवृक्षभूषितः सागरतीरः लोके प्रसिद्धः अस्ति। विशेषतया रेलयानेन गमनात् महती आनन्दः लभ्यते यतः सर्वथा भारतीयभूमिं द्रष्टुम् अवसरं लभ्यते।
पर्यटनं माम् अतीव रोचते। गते सप्ताहे तेलंगाणा तमिलनाडु इति राज्यद्वयं मया अटितम्। हैद्राबाद, चेन्नई अपि च पुदुच्चेरी नगरानि वीक्षितानि। पुदुच्चेर्यां सागरतीरं माम् आकर्षयन्ति। समये समये नाना राज्यानि द्रष्टुम् उद्योक्तो अहम्। एतस्य देशस्य नागरिक: भूते सति गर्वम् अस्ति मे। 

Oct 22, 2017

पत्रकाराः अपायाश्च

प्रपञ्चे सर्वत्र पत्रकाराः अपाये वर्तन्ते इति प्रतीतायते। पत्रकाराः नाम विशिष्टा जनाः। महता कष्टेन  ते नानाप्रदेशेषु गच्छन्ति, नानाविधान् कार्यम् कुर्वन्ति च। स्वप्राणान् अपि अगणयित्वा वृत्तान्तान् संगृह्णन्ति, जनेभ्यः समक्षम् प्रदर्शयन्ति च। 
जनेभ्यः सत्यं वक्तव्यम् इति वृत्तान्तपत्रिकाणाम् प्रथमम् कर्तव्यम्। प्रवाहैः परिप्लुते स्थले गत्वा विषयान् ज्ञात्वा चित्राणि संगृह्य ते शीघ्रम् जनेभ्यः नित्यम् निवेदयन्ति। नैतावदेव। यदा सर्वकारः कर्तव्यपालने स्खलति, यदा मन्त्रिणो वा अधिकारिणो वा भ्रष्टाचारम् कुर्वन्ति, यदा च स्वजनपक्षपातेन निर्णयान् विदधति तदा पत्रकाराः तान् प्रकाशे नीत्वा जनविदितान् कुर्वन्ति। एतादृशे सन्दर्भे प्रदर्शितदोषैः क्रुद्धाः प्रबलाः जनाः पत्रकारानाम् शत्रवो भवन्ति। येन केनापि मार्गेन पापिनः पत्रकाराणाम् मौनम् साधयितुम् प्रयतन्ते। प्रलोभनेन वा त्रासनेन वा पत्रकारान् दमयितुम् यदा न शक्नुवन्ति, तदा प्रबलाः शक्तयः पत्रकाराप्राणहरणे अपि प्रवर्तन्ते। प्रपञ्चस्य नानाराष्ट्रेषु पत्रकाराः एवम् हताः। भारतवर्षे अपि तादृशानि प्रकरणानि अभूवन्, भवन्ति च। यदा पत्रकाराणाम् वदन पिधीयते, तदा नास्ति प्रजाप्रभुत्वम्। प्रजाप्रभुत्वस्य रक्षायै पत्रकारेभ्यः सुरक्षा प्रदेया। ते हि दोषप्रख्यापनेन सर्वकारम् शोभने समीचीने पथि निनीषन्ति। पत्रकाराणाम् क्षेमम् यदा सर्वकारो वहति, तदैव प्रजाप्रभुत्वम् रक्षितम् भवति।
पत्रकारः एतादृशः भवेत् यः दुष्टान् भ्रामयति स्म किन्तु सज्जनानां सदैव मार्गदर्शनं करोति। समाजे व्याप्तानि दूषणानि प्रकटियुतम् दायित्वम् पत्रकाराणां अस्ति। सामाजिकैक्यस्य सामरस्यस्य देशस्य ऐक्यस्य अखण्डतायाः च कृते स्वकीयां भूमिकां ते निर्वहेयुः।    

Oct 15, 2017

महदानन्दात् वञ्चित:

त्वया प्रात: किम् क्रियते? प्रश्नमेतत् सर्वे जना: माम् पृच्छन्ति। तेषाम् किम् उत्तरम् दातव्यम् एवम् माम् न अवगम्यते। कारणम् एतदस्ति यत् प्रभाते उत्तिष्ठयन् अभ्यास: एव अहम् न जाने। रात्रौ प्रायश: एव विलम्बेन स्वपामि अहम्। तत: प्रात:काले क्वचिदेव विलम्बेन जागृतो भवामि। प्रायेण प्रभाते अष्ट-नववादनात् पूर्वम् निद्राभंग: न जायते मे।
दृढेच्छा मम खलु अस्ति यत् प्रातरेव उत्थापनम् भवेत्, धावयन्-क्रीडयन् दिनस्य आरम्भम् भवेत्। किन्तु अपूर्णा एव इयम् इच्छा वर्तते। 'न मुञ्चति खलु माम् दुराशा' वचनानुसारेण कथा अस्ति इयम्।
कदाचित् अहम् सूर्योदयात् प्राक् उत्थापयामि, तदा अहम् अनुभवामि किदृशम् सुखम् अस्ति प्रभातकाल:। मन्दशीतल: वायु: सञ्चरति। पक्षिण: कूजन्ति। वृक्षा: दवबिन्दवा: धारयन्ति। योगिनाम् ब्राह्ममुहूर्त: प्रिय: अस्ति इति कथ्यते। किमर्थं एतत् इति तदैव अवगन्तुम् शक्यते।
संक्षेपत: उक्त्वा, निखिलम् विश्वम् प्रसन्नताम् स्फुटयति। मन: यथा प्रभाते उल्हसितम् अस्ति तथा अन्य समये न भवति। मन्ये यत् महदानन्दात् वञ्चित: अस्मि अहम्।


Oct 15, 2015

अद्य भूतपूर्व राष्ट्रपतेः दिवंगतस्य डा. एपीजे अब्दुलकलामस्य प्रथमजयंति आसीत्। अस्मिन् अवसरे महाराष्ट्रस्य सर्वकारेण पठनप्रेरणादिनम् आचरितम् आसीत्। स्थाने स्थाने पुस्तकप्रदर्शनानि आयोजितानि सन्ति। कतिपय पुरातनानि पुस्तकानि तत्र द्रष्टुम् अलभ्यन्त। बहवा: जना: अत्र उपस्थिता:। यं पठनपाठनं रुच्यते तं कमपि एतत् दृश्यम् मोदयितुम् आर्हत् खलु।
पुणेनगरे विश्रामबागवाडा इत्यत्र आयोजितम् ग्रन्थप्रदर्शनम् मया दृष्टम्। ये पुस्तकानि केवलं श्रुतमात्रानि, न कदापि दृष्टपूर्वानि, ते पुस्तकानि एकत्रानि द्रष्टुम् विरलानुभव: खलु। ग्रन्थालयस्य अधिकारीजनाभ्या: प्रदर्शनस्थले एव उपविश्य पुस्तकपठनार्थं सुविधा अपि प्रदत्ता। केचित् जना: हस्ते पुस्तकानि गृहित्वा पठने निमग्ना: आसन्त:। एते इण्टरनेटयुगे अपि एतावत् जना: पुस्तकं अभिलषन्ति, एवं विचारितुम् प्रसन्नो अभवम्। नहि, सहस्रश: जना: तु ट्विटर-फेसबुकमूलत: एव पठनप्रेरणादिनस्य विषये अजानन्त, उपक्रमे भागम् अवहन्त च। राज्यस्य सांस्कृतिक कार्यसचिवेन विनोदतावडे महोदयेन सूचयिता एषा कल्पना साफल्यं अनुभूता, एवं कथयितुम् शक्यते। महाज्ञानी, देशप्रियाय राष्ट्रपत्याय कलामाय प्रदत्ता वास्तविका श्रद्धांजलि: एषा।