Showing posts with label मूल्यः. Show all posts
Showing posts with label मूल्यः. Show all posts

Jul 15, 2010

नवचिन्हं सज्जितानि रुप्यकाणि

rupee_symbol  भारतस्य अधिकारमुद्रा इति राजते रुप्यकम्। तदापि अन्य देशसदृशम् चिन्हम् न तस्यकृते निश्चितम्। अपि च सर्वकारेण अद्य भारतीय रुप्यकानि वर्णणयितुम् चिन्हमेकम् प्रसृतमस्ति।

मुद्रासंकेतयितुम् सर्वदेशानि स्वकीय चिन्हानि निश्चितं कृतानि। तथापि भारतस्य मुद्राया संकेतम् नासित। विविधा भाषा स्वलिप्यनुसारेण एव लेखनं करोति स्म।

सूचना-प्रसारण मंत्री अंबिका सोनी अकथयत् यत् युनिकोड आधारेण स्वीकारोउपरांत देशांतरे सर्वजनानाम् एवं संस्थानाम् कृते तस्य उपयोगम् आवश्यक भवति। षड्मासादेव एतद् पूर्णतां गमिष्यति इति सा अकथयत्। देशाभ्यंतरे तस्य उपयोगं कर्तुम् द्विवर्षानि अपि गन्तुम् शक्यते।

नवचिन्हस्य आगमनं अस्मानं कति लाभं ददाति, न जानामि। तदापि जनानाम कृते स्वराष्ट्रस्य एकं मानचिन्हं जनयितुम् एतत् प्रसंग इति तु संतोषदायकम् खलु।


Jun 26, 2010

पुनश्च मूल्यवृद्धी!

वायुपात्रस्य पेट्रोलादी द्रव्यस्य मूल्यानि च सर्वकारेण पुनरपि वर्धितानि. सामान्य जनानाम् कृते महत् कष्टानि जनयितुम् निर्णयम् एतत्. किं कर्तव्यम्?

न केवलं मूल्यवर्धनम्, अपि च् सर्वकारः स्वस्य नियंत्रणमपि निराकृतवान्. चिंता उत्पादयितुम् विषयः एतदेव अस्ति. 

Feb 4, 2010

क्रयशक्तिं बाधितुम् निर्णयः

पाकगृहे उपयुज्यमानः वायवस्य वाहनचलनार्थं अपरिहार्यमिति पेट्रोल-डिझेल द्रवस्य मूल्यं च वर्धनीयमिति सर्वकारं सूचनां अकरोत् एका समिती। तदा वास्तवात् मूल्यानि अधिकम् भवति  इति चिंता जनिता। समितिसूचना अवधार्य यदि सर्वकारम् निर्णयं करिष्यति तर्हि गृहे-गृहे वर्तन् वायुपात्रमूल्यम् 400 रुप्यकाणि भविष्यति। शाकं, दूग्धं, शर्करा अपरान्तम् मूल्यवर्धितानाम् वस्तूनाम् इतोSपि वस्तू आगच्छति। सामान्यजनस्य क्रयशक्तिं बाधितुम् घटनाक्रमः एषः। सर्वकारेण संकेताः द्त्ताः यत् मूल्य़वर्धनम् तत्कालमेव न भविष्यति किंतु सर्वकारं विश्वासः करितुमहर्ति वा इत्येव अस्माकं प्रश्न। मूल्यवर्धनाय तयारीकृतं न चेत् अन्यथा किं करणीयम?

वायुपात्रस्य मूल्यं अस्माभिः दातुम् शक्यते। तथापि इंधनमूल्यानि यदा वर्धते तदा तस्य परिणामः सर्वत्र दृश्यते। नववर्षे उत्पन्नः अनुचितप्रसंगः एषः।