Showing posts with label राजनीति. Show all posts
Showing posts with label राजनीति. Show all posts
Sep 9, 2019
May 9, 2018
कर्णाटके विधानसभानिर्वाचनस्य चरमोत्कर्षः
कर्णाटके विधानसभानिर्वाचनाय प्रचाराभियानं चरमोत्कर्षे वर्तते। तत्र प्रचाराय दिवसद्वयात्मकः समयः अवशिष्टो अस्ति। विभिन्न राजनीतिकदलीय नेतारः मतदातृन् आक्रष्टुं श्रमरताः दृश्यन्ते। प्रधानमन्त्री नरेन्द्रमोदी बांगरपेटस्थले निर्वाचनसभायां कांग्रेसदलं आरोपितवान्।
तेनोदीरतं यत् भारतीयजनतापक्षः दलित जनानां कृते आरक्षणस्य समर्थनं करोति। अपरत्र कांग्रेसाध्यक्षः राहुलगान्धीना बेंगलुरुनगरे शिल्पकर्मशालायां महिलाभिः साकं सम्भाषणं कृतम्। तत्र तेन मार्गीयप्रचाराभियानं कृतम् अस्ति। मुख्यमन्त्री सिद्धारमैया मैसुरुनगरे जनसभां संबोधयन् प्रोक्तवान् यत् एनडीएप्रशासनं दलितेषु उत्पीडनं कृतम्।
राज्ये विधानसभानिर्वाचनाय शनिवासरं मतदानं भविष्यति, मे पञ्चदशदिवसे च मतगणना भविष्यति।
Mar 29, 2018
इयं स्थिति न समीचीनम्।
सर्वे जनाः राजकीय क्षेत्रं अधिकाराकाङ्क्षया एव प्रविशन्ति। अहं शासकः भविष्यामि, सांसदः भविष्यामि, मन्त्री भविष्यामि इति सर्वे चिन्तयन्ति। मन्त्रीपदं वा अद्य मुख्यमन्त्रीपदं प्राप्त्यर्थं जनाः किं न कुर्वन्ति? सर्वेषाम् आकाङ्क्षा इत्येव वर्तते। यः मन्त्रित्वम् प्राप्नोति सः मुख्यमन्त्रिः भवितुम् इच्छति। अतः मन्त्रित्वकाङ्क्षिणः सदा मुख्यमन्त्रिणो वा प्रधानमन्त्रिणो वा द्वारे तिष्ठन्ति।
केचन मन्त्रिणो तथा वर्तन्ते ये सदा भीताः सन्ति। स्वपदं नश्येत् इति तेषां भयम्। ग्रामं ग्रामं च गृहं गृहं गत्वा जनसमस्यां अवगन्तुम् मन्त्रिणां कर्तव्यम् वर्तते।
मन्त्री यः वा को वा भवतु, प्रजानां स्थितिः सदा सैव। मन्त्रिणां स्थितिः उत्तमा भविष्यति। तत्र न संशयः। मन्त्रिणः के अपि भवन्तु नाम, अस्माकं किं प्रयोजनम् इति जनाः तूष्णीं स्थास्यन्ति। लोकतन्त्रस्य कृते इयं स्थिति न समीचीनम्।
Dec 17, 2017
श्वः किं भविष्यति?
एकं विश्वं वर्तते यत् निर्वाचनपरिणामस्य अनुमाना:, भविष्यवाणी तथा च वदन्त्याम् आधृत्य एव जीवति। अस्मिन् विश्वस्य नागरिका: के? स्वयंमन्या: राजनीतिनिरीक्षका:, पत्रकारा:, ज्योतिषय: तथा च अन्या। एतादृशी अपि जना: सन्ति ये यत्र प्रचलति, तत्रत: शतयोजनं दूरे वसति सति अपि तत्रस्था: मतदातार: किं इच्छन्ति एवं शपथेन कथयन्ति। इदानीमपि एवमेव वर्तयन् अस्ति। वास्तवात् किं भविष्यति, इति मतदानयन्त्रानि एव जानन्ति।
Subscribe to:
Posts (Atom)
-
एकस्य ग्रामस्य कश्चित् निवासी स्वकीयं परिजनान् कुटीरात् निष्कास्य स्वकीयं सुदृढ़ं गृहस्य उपलब्धि: दत्तवान्। तस्य परिजना: कुटीरे जीवनं यापितव...
-
प्रपञ्चे सर्वत्र पत्रकाराः अपाये वर्तन्ते इति प्रतीतायते। पत्रकाराः नाम विशिष्टा जनाः। महता कष्टेन ते नानाप्रदेशेषु गच्छन्ति, नानाविधान् क...
