Showing posts with label भारतम्. Show all posts
Showing posts with label भारतम्. Show all posts

Jan 26, 2019


देशस्य सर्वान् अपि नागरिकान् प्रजाप्रभुत्वदिनस्य शुभाशयान् दातमु अहम् इच्छामि। प्रजाप्रभुत्वदिनं संवैधानिकाधिकारान् च कर्तव्यान् प्रति जागरूका: भवितुं प्रसङ्गः वर्तते। संवैधानिकं मूल्यानां रक्षाया: संकल्प: नेतुं पर्वम् अस्ति एतत्।
अस्माकं कर्तव्यं वर्तते यत् प्रदेशस्य विकासे सहभागिन: वयं भवामः। प्रत्येक: नागरिक: स्व कर्तव्यानां पालनं कुर्यात् यस्मात् देशः अग्रे वर्धापयेत्। एतत् प्रसङ्गः सामान्यजनानाम् आकाङ्क्षाणां उत्सवः अस्ति। प्रजाप्रभुत्वदिनस्य उत्सवः स्वकीयाधिकारविषये जागरूकाः भवितुं, कर्तव्यान् प्रति च संवेदनशील: भवितुम् अवसर: अस्ति। वत्सरे अस्मिन् गणतन्त्रदिनम् शनिवासरे आगतम् अस्ति। 
भारतदेशः १९४७ तमवर्षस्य आगष्ट्मासस्य १५ दिनाङ्के स्वतन्त्रः अभवत् । अनन्तरं प्रजाप्रभुत्वरीत्या अत्र प्रशासनं चलति स्म । यदा संविधाननिर्माणकार्यं समाप्तम् अभवत् तदा संविधानम् अङ्गिकृत्य देशे १९५० तमे वर्षे जनवरीमासस्य २६ दिनाङ्के भारतदेशं प्रजाप्रभुत्वराष्ट्रामिति धोषितवन्तः । तद्दिनादाराभ्य भारतदेशे भारतीय-संविधानरीत्या प्रशासनं प्रचलति ।

Jan 17, 2019

भारतीयसंस्कृते: मूलम्


समाजे परस्परसद्भावना, साम्प्रदायिकी शान्ति: च बन्धुत्वम् एव अस्माके भारतीयसंस्कृते: मूलम् अस्ति। विश्वे भारतम् एव केवलम् एतादृशः देशः अस्ति यत्र एतावत् विशालं वैविध्यं दृश्यन्ते। प्रत्येकस्य राज्यस्य स्वस्य परम्परा:, भाषा: तीज उत्सवा: सन्ति। तथापि ते सर्वेः एकत्त्वं प्रकटयन्ति एव। एतेषां फलस्वरूपम् एव पारस्परिकम् एकता। भारतदेशे समाजे भिन्नता: भवितुं नाम, तथापि अखिलः देशः त्रिवर्णध्वजस्य अध: एकत्त्वभावने स्थितः अस्ति। विश्वं भारतस्य केवला आर्थिकी शक्ते: नैव प्रत्युत् अत्रत्य अनेकतायाम् एकता, बन्धुत्वं च शान्ति: सदृशं मूल्यानां प्रशंसक: अस्ति। एते अस्मिन् प्राचीनदेशे एकतायाः नानारूपाविष्कारं दृश्यते। एतदेव अस्ति विश्वे भारतस्य परिचयम्। एषा विविधता एव भारतीयसंस्कृतिं सुदृढ़ा करोति एवमपि कथितुम् शक्यते। नैकाः शक्तयः वर्तन्ति ये अस्माकम् एतद् परिचये प्रहारं कर्तुं प्रयासं कुर्वन्ति परं च अस्माकं स्वभावम् एतादृशम् अस्ति यत् अस्माकं विचारधारायां कदापि दुर्विचारं नैव आगच्छति। एतेषां फलस्वरूपम् एव पारस्परिकम् एकता अस्ति।