Showing posts with label पर्वम्. Show all posts
Showing posts with label पर्वम्. Show all posts

Oct 18, 2017

वयम् प्रकाशोपासकाः, वयम् तेजपूजकाः

वयम् प्रकाशोपासकाः। वयम् तेजपूजकाः। शतकात् शतकम्, युगानुयुगम् यावत् प्रकाशमार्गेण गच्छामः वयम्। अन्धकारम्  दूरीकृत्वा प्रदीप्तम् प्रकाशम् प्रति गच्छामः वयम्। अस्माकम् प्रतिपदम् सूर्यालोकितपथे एव भवेत्, एवम् वयम् इच्छाम्ः।
वयम् भारतस्य पुत्राः यस्य सुदीर्घा परम्परा विद्यते। वयम् भारतदेशे निवसामः यत्र अन्धकारम् पराजित्य प्रकाशस्य विजयः उद्घोषयते। वयम् भारतदेशस्य नागरिकाः इति अस्मान् कृते गर्वविषयः। उत्सवप्रधानोऽयं भारतवर्षः। उत्सवप्रियाः खलु भारतीयाः। तदपि दीपावलीपर्वम् भारतीयानाम् प्रमुखम् पर्वमस्ति। पितुः आज्ञां पालयन् चतुर्दशवर्षाणि वने उषित्वा रावणां हत्वा, स्वपत्नीं सीताञ्च विमोच्य अयोध्यानगरीं परावृत्तः आसीत् श्रीरामः अस्मिन् एव दिवसे । तस्मादेव कालाद भारतीयाः प्रतिवर्ष कार्तिकामावस्यायां स्वगृहेषुदीपान् प्रज्ञ्वालयन्ति, एषा अस्ति जनश्रुतिः। अस्मिन्नेव दिवसे रात्रौ महालक्ष्मीपूजनं क्रियते।
अस्माकम् दीपावलीपर्वम् प्रकाशपर्वम् अस्ति। पर्वेऽस्मिन् अन्धकारमया निशा अपि दीपालंकारेण अस्माभिः शोभायते। कुङ्कुमधृता युवति इव सा निशा राजते। अस्मिन् पर्वे प्रज्वलिता दीपमालिका केन्द्रस्थाने वर्तते। एतत्कारणे एव इदम् पर्वम् दीपावली नाम्ना आख्यातम्। तमसो मा ज्योतिर्गमय इति यत् ऋषैः प्रार्थितम् आसीत्, तस्य साकाररूपम् अस्ति दीपावली।
आरम्भकाले देवासुरयोः संग्रामः प्रकाशस्य अधिग्रहणार्थम् एव अभवत्, इति वेदाः कथयन्ति। महता कष्टेन प्राप्तः प्रकाशोऽयम् अस्माभिः रक्षितव्यः, वर्धनीयः च। दीपस्य श्रेष्ठत्वम् तस्य आकारात् नैव, प्रभाया वर्तते।
अन्धकारः नाम कः? रंगस्य, आलोकस्य अभावः तु अन्धकारः कथ्यते। सर्वाः वर्णाः अन्धकारे सहमताः इति केनचित् आंग्ललेखकेन लिखितम् अस्ति। सूक्ष्माकाराः चेदपि दीपकाः अन्धकारम् निवारयन्ति। सर्वाः वर्णाः तैः पृथक्त्वेन स्पष्टाः कार्यन्ते।
सर्वे मिलित्वा अन्धकारम् नाशयितुम् यत् प्रयत्नः कार्यते तस्य नाम दीपावली। दीपावली नाम चिन्ताराहित्यम्, दीपावली नाम आनन्दावसरः। दरिद्रात् दरिद्रः अपि अस्मिन् पर्वे आनन्दम् अनुभवति। गृहाणि नववधूरिव भासन्ते। दीपावल्याः महत्वम् अनन्यमेव।
एहि, प्रसन्नमनसा पर्वमेतत् अनुभवामः। परस्परम् शुभाशयाः दास्यामः। स्वस्य आनन्दे इतरेषाम् भागिनः कुर्यामः।

Oct 16, 2017

स्फोटकानाम् आस्फोटनम् - अति सर्वत्र वर्जयेत्


दीपावली अस्माकम् देशस्य प्राचीनतमम् पर्वम्। प्रकाशपर्वम् इत्यनेन नाम्ना ख्यातः उत्सवः एषः। सर्वानन्दनिधानम्। प्रतिवर्षम् पर्वम् एतत् प्रतीक्षामः वयम्। 
अस्मिन् दिने सर्वाधिकम् आकर्षकम् मनोरञ्जनम् भवति स्फोटकानाम् आस्फोटनम्। विचित्राणि वर्णयुक्तानि स्फोटकानि आकाशे भूमौ च विविधरूपाणि दर्शयन्ति। जनाः तानि दृष्ट्वा तुष्यन्ति। बालाः तु विशेषेण तुष्यन्ति। शीर्षन्यायालयस्य निर्णयात् स्फोटकानाम् आस्फोटनम् इतिहासात् एव पठितुम् शक्यते। 
आस्फोटनम् आल्हादयति खलु, परन्तु अति सर्वत्र वर्जयेत्। रात्रौ आस्फोटकानाम् शब्दः कर्णौ बधिरीकरोति वायुमण्डलम् च दूषयति। पूर्वम् जनसंख्या सीमिता आसीत्। वृक्षाः वायुम् शुद्धम् कुर्वन्ति स्म। इदानीम् जनसंख्या प्रवृद्धा, वृक्षसंख्या क्षीणा। विस्फोटकेभ्यः निर्गतः धूमः रुग्णान् पीडयति, नवजातिशिशुभ्यः हानिकरः सिध्यति। दीपावलीसमये शरदि आकाशः निर्मल: भवति। सर्वत्र पवित्रता विराजते। 
अतः वयम् पवित्रतया सद्भावनाया उत्साहेन च दीपावलीम् मान्येम, वसुन्धरां भूषितां कुर्याम न तु दूषिताम्। येन सर्वेषां जीवन सुखमयं भवेत्। किम् तेन उत्सवेन सः कस्मैचित् अपि कष्टकरः भवेत्?  'सर्वे भवन्तु सुखिन:' इति अस्माकम् आदर्शः। 
दीपावल्या: पर्वम् न केवलं गृहस्य अन्तर्बहि: प्रकाशकरणस्य पर्वं अस्ति, एतत् पर्वम् स्वकीयम् अन्त: मनस्य अंधकारं दूरी कृत्वा समाजे देशे च एकता, बन्धुत्वं च स्नेहस्य प्रकाश: प्रसारणस्य उत्सव: अपि अस्ति।
एतदर्थम् अस्माभिः विस्फोटकं सामग्रीणाम् अल्पम् उपयोगं करणीयम् पर्यावरणस्य संरक्षणम् भवति। स्वच्छता च स्थापिता भवेत्।