Showing posts with label तमिल. Show all posts
Showing posts with label तमिल. Show all posts

Nov 7, 2017

देवदर्शनात् देशदर्शनं

देवदर्शनं भारतीयजनानां कृते महत्त्वपूर्णं अस्ति। देवस्य दर्शनं कर्तुम् जनाः तीर्थस्थलं सन्दर्शयन्ति। ततः ते तीर्थयात्रा कुर्वन्ति तस्मात् च तीर्थयात्राया एव देशदर्शनं कुर्वन्ति। इतिहासपूर्वकालात् एव जनतायाः अभ्यासः आसीत् अयम्। यात्रायाः मार्गः कदापि न सुलभः आसीत्। एवंविधे अपि जनाः प्राचीनकालात् एव गमयन् आसन्तः। अधुना तु यात्रासौकर्यात् ते परस्परप्रदेशं वारंवारं गच्छन्ति। एकस्मात् अधिकं स्थानानां भ्रमणं कर्तुं नैकाः जनाः सन्ति। कतिपयजनाः मम परिचिताः सन्ति ये प्रतिवर्षं अनन्यतमं नवं स्थानं गच्छन्ति। एतत्कारणादेव देशे पर्यटनोद्योगः वर्धयन् अस्ति।
अनेकानि तीर्थस्थलानि सन्ति येषां समीपे स्थितानि ऐतिहासिकस्थानानि अपि दर्शनीयानि सन्ति। तेषां दर्शनात् अनायासेन एव देशदर्शनं अपि भवति। यात्रिण: तीर्थस्थानस्य विषये विवरणानि लभ्यते।
अस्माकं देशः अद्भुतः अस्ति। अत्र सर्वे धर्मा: च समुदायानां जना: मिलित्वा शान्तिपूर्वकं वसन्ति। प्रत्येकस्य राज्यस्य का अपि विशेषता वर्तते। यथा महाराष्ट्रराज्ये नैकाः दुर्गाः सन्ति, तमिलनाडुराज्ये दर्शनीयानि देवालयानि सन्ति। केरलप्रान्तेऽस्मिन् नारिकेलवृक्षभूषितः सागरतीरः लोके प्रसिद्धः अस्ति। विशेषतया रेलयानेन गमनात् महती आनन्दः लभ्यते यतः सर्वथा भारतीयभूमिं द्रष्टुम् अवसरं लभ्यते।
पर्यटनं माम् अतीव रोचते। गते सप्ताहे तेलंगाणा तमिलनाडु इति राज्यद्वयं मया अटितम्। हैद्राबाद, चेन्नई अपि च पुदुच्चेरी नगरानि वीक्षितानि। पुदुच्चेर्यां सागरतीरं माम् आकर्षयन्ति। समये समये नाना राज्यानि द्रष्टुम् उद्योक्तो अहम्। एतस्य देशस्य नागरिक: भूते सति गर्वम् अस्ति मे। 

Feb 4, 2010

‘जय हो’ अस्माकं खलु?

विश्वस्य प्रांगणे भारतस्य बहुशः प्रसिद्धतमः संगीतकारः ए. आर. रहमानः बहुमानिताः पुरस्काराः प्राप्यते, आनंदम् जनयति खलु। ऑस्करद्वयं हस्तगतं कृत्वा वर्षानंतरम् रहमानं ग्रॅमीसन्मानः संप्राप्तम् भारतदेशस्य नागरिकानां कृते अभिमानदायकम् एव वर्तते। अविराम ईदृशानि पुरस्काराः जेतुम् न सुलभम् कार्यम्। ईश्वरः महान् अस्ति, इ्त्युक्त्वा रहमानेन स्वयशस्य महती वर्धिता।

तथापि, रहमानं एषाः  पुरस्काराः प्रदातुम् उचितम् अस्ति वा, शंकनीय खलु। स्वस्य तमिल भाषायां हिंदी भाषायां च रहमानेन असंख्यातानि गीतानी रचितानि। अनेकानि गीतानि तु इदानीमपि लोकप्रियानि सन्ति। कतिपय चलच्चित्रायाम् विद्यन् रहमानस्य संगीतमाधुर्यं स्लमडॉगस्य अपेक्षाया बहुवारं उत्तमम् वर्तते।
तथापि, स्लमडॉग मिलिनियेर चलच्चित्रं एव परकीय प्रेक्षकानाम् समीक्षकानाम् अपि अरोचत्। तदा तस्यां अज्ञानमेव दृश्यते। अपि च केनचित भारतीय दिग्दर्शकेन चित्रीतम् चलच्चित्रं ईदृशी सफलतां पश्यन् शक्नुते वा एतदपि प्रश्नः।