प्रपञ्चे सर्वत्र पत्रकाराः अपाये वर्तन्ते इति प्रतीतायते। पत्रकाराः नाम विशिष्टा जनाः। महता कष्टेन ते नानाप्रदेशेषु गच्छन्ति, नानाविधान् कार्यम् कुर्वन्ति च। स्वप्राणान् अपि अगणयित्वा वृत्तान्तान् संगृह्णन्ति, जनेभ्यः समक्षम् प्रदर्शयन्ति च।
जनेभ्यः सत्यं वक्तव्यम् इति वृत्तान्तपत्रिकाणाम् प्रथमम् कर्तव्यम्। प्रवाहैः परिप्लुते स्थले गत्वा विषयान् ज्ञात्वा चित्राणि संगृह्य ते शीघ्रम् जनेभ्यः नित्यम् निवेदयन्ति। नैतावदेव। यदा सर्वकारः कर्तव्यपालने स्खलति, यदा मन्त्रिणो वा अधिकारिणो वा भ्रष्टाचारम् कुर्वन्ति, यदा च स्वजनपक्षपातेन निर्णयान् विदधति तदा पत्रकाराः तान् प्रकाशे नीत्वा जनविदितान् कुर्वन्ति। एतादृशे सन्दर्भे प्रदर्शितदोषैः क्रुद्धाः प्रबलाः जनाः पत्रकारानाम् शत्रवो भवन्ति। येन केनापि मार्गेन पापिनः पत्रकाराणाम् मौनम् साधयितुम् प्रयतन्ते। प्रलोभनेन वा त्रासनेन वा पत्रकारान् दमयितुम् यदा न शक्नुवन्ति, तदा प्रबलाः शक्तयः पत्रकाराप्राणहरणे अपि प्रवर्तन्ते। प्रपञ्चस्य नानाराष्ट्रेषु पत्रकाराः एवम् हताः। भारतवर्षे अपि तादृशानि प्रकरणानि अभूवन्, भवन्ति च। यदा पत्रकाराणाम् वदन पिधीयते, तदा नास्ति प्रजाप्रभुत्वम्। प्रजाप्रभुत्वस्य रक्षायै पत्रकारेभ्यः सुरक्षा प्रदेया। ते हि दोषप्रख्यापनेन सर्वकारम् शोभने समीचीने पथि निनीषन्ति। पत्रकाराणाम् क्षेमम् यदा सर्वकारो वहति, तदैव प्रजाप्रभुत्वम् रक्षितम् भवति।
पत्रकारः एतादृशः भवेत् यः दुष्टान् भ्रामयति स्म किन्तु सज्जनानां सदैव मार्गदर्शनं करोति। समाजे व्याप्तानि दूषणानि प्रकटियुतम् दायित्वम् पत्रकाराणां अस्ति। सामाजिकैक्यस्य सामरस्यस्य देशस्य ऐक्यस्य अखण्डतायाः च कृते स्वकीयां भूमिकां ते निर्वहेयुः।
No comments:
Post a Comment