गत वर्षे जूनमासस्य 25तमे दिनांके विश्वविख्यातः गायकः मायकेल जॅक्सनः मृतः जातः। तदनंतरम् तस्य विषये नाना रंजकानि वार्ताः श्रुयन्ते। तथापि अस्य प्रतिभाशाली मनुष्यस्य स्मृतीरंजनम् न क्षीणताम् प्रतिगच्छति।
मायकेल जॅक्सन नाम अप्रतिहत ऊर्जा एवम् च आकर्षणम्. ये जनाः अद्य 30-40 संवत्सरानि सन्ति, तेषां कृते मायकेल इति मनोरंजनस्य अनुपमेय भांडारः। मरणोSपरान्त अपि तस्य विषये किञ्चिन्नपि न्यूनताम् न पश्यामः. केचिद् जनाः तस्य विषये नानाप्रवादाः समुपस्थितयन्ति। तदापि, मायकेलरसिकाः प्रवादाः न गणयन्ति. तेषां कृते मायकेलस्य गानकौशल्यं च, तस्य नृत्यलावण्यम् अपि च तस्य विस्मयजनक प्रभावमेव प्रगणनीयम्।
अहमपि मायकेलस्य रसिकः अस्मि, किमेतत् कथयितुमर्हति खलु?
No comments:
Post a Comment