Oct 15, 2017

महदानन्दात् वञ्चित:

त्वया प्रात: किम् क्रियते? प्रश्नमेतत् सर्वे जना: माम् पृच्छन्ति। तेषाम् किम् उत्तरम् दातव्यम् एवम् माम् न अवगम्यते। कारणम् एतदस्ति यत् प्रभाते उत्तिष्ठयन् अभ्यास: एव अहम् न जाने। रात्रौ प्रायश: एव विलम्बेन स्वपामि अहम्। तत: प्रात:काले क्वचिदेव विलम्बेन जागृतो भवामि। प्रायेण प्रभाते अष्ट-नववादनात् पूर्वम् निद्राभंग: न जायते मे।
दृढेच्छा मम खलु अस्ति यत् प्रातरेव उत्थापनम् भवेत्, धावयन्-क्रीडयन् दिनस्य आरम्भम् भवेत्। किन्तु अपूर्णा एव इयम् इच्छा वर्तते। 'न मुञ्चति खलु माम् दुराशा' वचनानुसारेण कथा अस्ति इयम्।
कदाचित् अहम् सूर्योदयात् प्राक् उत्थापयामि, तदा अहम् अनुभवामि किदृशम् सुखम् अस्ति प्रभातकाल:। मन्दशीतल: वायु: सञ्चरति। पक्षिण: कूजन्ति। वृक्षा: दवबिन्दवा: धारयन्ति। योगिनाम् ब्राह्ममुहूर्त: प्रिय: अस्ति इति कथ्यते। किमर्थं एतत् इति तदैव अवगन्तुम् शक्यते।
संक्षेपत: उक्त्वा, निखिलम् विश्वम् प्रसन्नताम् स्फुटयति। मन: यथा प्रभाते उल्हसितम् अस्ति तथा अन्य समये न भवति। मन्ये यत् महदानन्दात् वञ्चित: अस्मि अहम्।


No comments:

Post a Comment