Oct 14, 2017

देशे व्याप्ता: चेतावन्या: दूरं करणाय सहभागिता साहित्यकारा: निर्वहेयु:

नगर्याम् राज्यपाल: अद्य साहित्यकारान् सम्मानिता: अकारयत्। स: अवदत् यत् अद्यतन युगं परिवर्तनस्य युगम् अस्ति। अस्माकं साहित्यं विलोपनस्य भयमस्ति। किम् सभ्यता अपि भविष्यति वा न वा इति चिन्ता अखिलम् विश्वम् करोति। युवकान् भौतिकवादस्य प्रलोभनं दत्वा स्वकीयं साहित्यम्, संस्कृति: च सभ्यतया दूरं कर्तुम् केचन जना: उद्युक्ता: सन्ति। एवंविधे समये देशे व्याप्तम् भयम् दूरीकर्तुम् साहित्यकारा: यत्ना: कर्तुमर्हन्ति। स्वकीया सहभागितां ते निर्वहितुमर्हन्ति। विवेकेन कर्मठतया ते आचरितुमर्हन्ति।
अधुना वयम् पश्याम् यत् साहित्यकारा: पाठकाश्च मध्ये संवादाभाव: वर्तते। महाविद्यालयेषु स्वप्रदेशस्य शिक्षा केन्द्रेषु अपि ते गमनार्हा यस्मात् परस्परम् द्रष्टुम् प्रसंगा: अधिका: भविष्यन्ति। खेदस्य विषय: यत् ते तथा न आचरन्ति। स्वमानविषये आग्रहम्  धृत्वा ते समुदाये विचरन्ति। तत: जनसम्मर्दे आदरम् तु वर्तते, अपि प्रेमभावना क्वचिदेव दृश्यते।
एतत् सत्यमस्ति यत् अस्माकं साहित्यम् अतीव विशालम्, प्राचीनतमं च विश्वसनीयम् अस्ति। अस्माकं देशस्य अनेके साहित्यकारा: स्वातंत्र्यसमरेsस्मिन् यत् बलिदानं दत्तवन्त:, तद् कदापि विस्मर्तुम् न शक्यते। ये विस्मरणं कृतवन्त: ते कृतघ्ना: एव।
स्वातंत्र्यवीर: विनायकदामोदरसावरकर: तेषाम् मध्ये अन्यतम: एक:। महाकवि: सुब्रमण्यभारती: अपर: च। भारतीवर्य: यम् भक्त्या पूजितवन्त: स: लोकमान्यतिलक: अपि कुशल: वाग्विलासी। नैका: तथा लोकोत्तरा: जना: वयम् द्रष्टुम् शक्नुम:।    
उत्तमं, शिक्षाप्रदं तथा रोचकम् च साहित्यं पाठकान् अधुना आकर्षितं न करोति, एवमपि नास्ति। कश्चित् सुभाषितकार: यथा वदति तथा "योजकस्तत्र दुर्लभ:"। एतान् विषयान् अधिकृत्य लेखनम् कर्तुम् उद्युक्ता: पुरुषा: एव न दृश्यन्ते।
  शोभनं शिक्षाप्रदं च साहित्यं अवश्यमेव जनप्रियम् भविष्यति। प्रयोग: कर्तव्यम्। साहित्यं समाजस्य न केवलम् दर्पणम् अर्पणम् अपि अस्ति। जलरत्नाकर: इव शब्दरत्नाकर: अपि अस्मान् मौक्तिकानि ददाति। अस्माकम् बालका: यथा एतान् मौक्तिकान् प्राप्स्यन्ति तथा अस्माभि: करणीयम्।

No comments:

Post a Comment