Nov 13, 2017

परिवर्तनं नाम सृष्टिनियमः


चीनदेशस्य विद्वान् कन्फ्यूशियसः कथयति यत् ये कदापि न परिवर्तयन्ति ते बुद्धिमानाः सन्ति अथवा तु ते अतिमूर्खाः सन्ति। विचारस्य दृढता श्लाघनीया एव अस्ति, तथापि देशकालपरिस्थित्यानुसारेण परिवर्तनं अपि साहाय्यकं भवति। समयेन सह परिवर्तनं स्वाभाविकं वर्तते।
परिवर्तनं सदैव आव्हानात्मकं वर्तते, न कदापि सुलभं। परिवर्तनं कारयनं अनिच्छुकाः वयं सर्वे यदा कदा वा तस्य प्रतिकारः कुर्यामः। एतत् निश्चितं अस्ति यत् तथा कृतेन वयं सचेताः भवामःन तु बुद्धिहिनाः। स्वप्राणरक्षणं प्रत्येकस्य जीवस्य अधिकारः वर्तते। तथैव केनापि परिवर्तनेन आत्मनि कुठाराघातं नैव भवेत्, इति सावधानतया वर्तयितुम् कर्तव्यः वर्तते।


सामान्यतया समायोजनस्य आवश्यकता कदा वर्तते एवं वयं जानामः। तत् कृतीं करणार्थं वयं कालहरणं अपि कुर्यामः येन तस्य समयं अग्रे प्रेषयितुं शक्यते। तस्मात् अपि एवं कथितुम् शक्यते यत् वयं सुज्ञाः स्मः?
अस्मात् केचित् जनाः एव नवताविरोधस्य कृते सुज्ञता शब्दं प्रयोक्तुम् शन्नोन्ति। किमपि परिवर्तनं सम्मुखी कर्तुं अस्माकं इच्छा अस्ति वा न वा, तत् परिवर्तनं भविष्यति एव। त्वं निमित्तमात्रः भव इति भगवद्गीतायां श्रीकृष्णेन एव कथितं अस्ति ननु। देवाभिःवयं लाभं प्राप्तुम शक्नुमः येन स्वस्य विचाराः अस्माभिः साकाराः कर्तुं शक्यन्ते।

दृष्टिकोणे परिवर्तनम् कृत्वा एव जीवने अद्भुतं परिवर्तनं कर्तुं शक्यते केनापि। परिवर्तनं नाम सृष्टिनियमः। तस्य स्वागतं एव कर्तव्यम्।

No comments:

Post a Comment