
प्रत्येक: अन्यं संशयेन ईर्षया एव पश्यति। अस्मादेव कारणात् महता सम्पादितेन धनेन अपि ते तुष्टा: न भवन्ति। इतोsपि अधिकं प्राप्तुम् अर्हते, तदैव वयं सुखीन: स्याम: इति ते चिन्तयन्ति। प्रख्यात: लेखक: लिओतोल्स्तोयस्य एका कथा वर्तते - मनुष्यस्य कियत् भूमि आवश्यका अस्ति? तां कथां अनुसृत्य एव लोके व्यवहार: दृश्यते।
अस्मान् यावत् आवश्यकम् अस्ति तावत् धनं वयं प्राप्तुम् अर्हाम:, तथापि सा आवश्यकता कदा पूरिता भवति तावन्मात्रं लक्षणीयं वर्तते।
एतदेव ज्ञातुं बहव: जना: असमर्था: सन्ति। समस्या इयमेव अस्ति।
No comments:
Post a Comment