Jan 26, 2019


देशस्य सर्वान् अपि नागरिकान् प्रजाप्रभुत्वदिनस्य शुभाशयान् दातमु अहम् इच्छामि। प्रजाप्रभुत्वदिनं संवैधानिकाधिकारान् च कर्तव्यान् प्रति जागरूका: भवितुं प्रसङ्गः वर्तते। संवैधानिकं मूल्यानां रक्षाया: संकल्प: नेतुं पर्वम् अस्ति एतत्।
अस्माकं कर्तव्यं वर्तते यत् प्रदेशस्य विकासे सहभागिन: वयं भवामः। प्रत्येक: नागरिक: स्व कर्तव्यानां पालनं कुर्यात् यस्मात् देशः अग्रे वर्धापयेत्। एतत् प्रसङ्गः सामान्यजनानाम् आकाङ्क्षाणां उत्सवः अस्ति। प्रजाप्रभुत्वदिनस्य उत्सवः स्वकीयाधिकारविषये जागरूकाः भवितुं, कर्तव्यान् प्रति च संवेदनशील: भवितुम् अवसर: अस्ति। वत्सरे अस्मिन् गणतन्त्रदिनम् शनिवासरे आगतम् अस्ति। 
भारतदेशः १९४७ तमवर्षस्य आगष्ट्मासस्य १५ दिनाङ्के स्वतन्त्रः अभवत् । अनन्तरं प्रजाप्रभुत्वरीत्या अत्र प्रशासनं चलति स्म । यदा संविधाननिर्माणकार्यं समाप्तम् अभवत् तदा संविधानम् अङ्गिकृत्य देशे १९५० तमे वर्षे जनवरीमासस्य २६ दिनाङ्के भारतदेशं प्रजाप्रभुत्वराष्ट्रामिति धोषितवन्तः । तद्दिनादाराभ्य भारतदेशे भारतीय-संविधानरीत्या प्रशासनं प्रचलति ।

No comments:

Post a Comment