Oct 18, 2017

वयम् प्रकाशोपासकाः, वयम् तेजपूजकाः

वयम् प्रकाशोपासकाः। वयम् तेजपूजकाः। शतकात् शतकम्, युगानुयुगम् यावत् प्रकाशमार्गेण गच्छामः वयम्। अन्धकारम्  दूरीकृत्वा प्रदीप्तम् प्रकाशम् प्रति गच्छामः वयम्। अस्माकम् प्रतिपदम् सूर्यालोकितपथे एव भवेत्, एवम् वयम् इच्छाम्ः।
वयम् भारतस्य पुत्राः यस्य सुदीर्घा परम्परा विद्यते। वयम् भारतदेशे निवसामः यत्र अन्धकारम् पराजित्य प्रकाशस्य विजयः उद्घोषयते। वयम् भारतदेशस्य नागरिकाः इति अस्मान् कृते गर्वविषयः। उत्सवप्रधानोऽयं भारतवर्षः। उत्सवप्रियाः खलु भारतीयाः। तदपि दीपावलीपर्वम् भारतीयानाम् प्रमुखम् पर्वमस्ति। पितुः आज्ञां पालयन् चतुर्दशवर्षाणि वने उषित्वा रावणां हत्वा, स्वपत्नीं सीताञ्च विमोच्य अयोध्यानगरीं परावृत्तः आसीत् श्रीरामः अस्मिन् एव दिवसे । तस्मादेव कालाद भारतीयाः प्रतिवर्ष कार्तिकामावस्यायां स्वगृहेषुदीपान् प्रज्ञ्वालयन्ति, एषा अस्ति जनश्रुतिः। अस्मिन्नेव दिवसे रात्रौ महालक्ष्मीपूजनं क्रियते।
अस्माकम् दीपावलीपर्वम् प्रकाशपर्वम् अस्ति। पर्वेऽस्मिन् अन्धकारमया निशा अपि दीपालंकारेण अस्माभिः शोभायते। कुङ्कुमधृता युवति इव सा निशा राजते। अस्मिन् पर्वे प्रज्वलिता दीपमालिका केन्द्रस्थाने वर्तते। एतत्कारणे एव इदम् पर्वम् दीपावली नाम्ना आख्यातम्। तमसो मा ज्योतिर्गमय इति यत् ऋषैः प्रार्थितम् आसीत्, तस्य साकाररूपम् अस्ति दीपावली।
आरम्भकाले देवासुरयोः संग्रामः प्रकाशस्य अधिग्रहणार्थम् एव अभवत्, इति वेदाः कथयन्ति। महता कष्टेन प्राप्तः प्रकाशोऽयम् अस्माभिः रक्षितव्यः, वर्धनीयः च। दीपस्य श्रेष्ठत्वम् तस्य आकारात् नैव, प्रभाया वर्तते।
अन्धकारः नाम कः? रंगस्य, आलोकस्य अभावः तु अन्धकारः कथ्यते। सर्वाः वर्णाः अन्धकारे सहमताः इति केनचित् आंग्ललेखकेन लिखितम् अस्ति। सूक्ष्माकाराः चेदपि दीपकाः अन्धकारम् निवारयन्ति। सर्वाः वर्णाः तैः पृथक्त्वेन स्पष्टाः कार्यन्ते।
सर्वे मिलित्वा अन्धकारम् नाशयितुम् यत् प्रयत्नः कार्यते तस्य नाम दीपावली। दीपावली नाम चिन्ताराहित्यम्, दीपावली नाम आनन्दावसरः। दरिद्रात् दरिद्रः अपि अस्मिन् पर्वे आनन्दम् अनुभवति। गृहाणि नववधूरिव भासन्ते। दीपावल्याः महत्वम् अनन्यमेव।
एहि, प्रसन्नमनसा पर्वमेतत् अनुभवामः। परस्परम् शुभाशयाः दास्यामः। स्वस्य आनन्दे इतरेषाम् भागिनः कुर्यामः।

No comments:

Post a Comment