Aug 3, 2016

राष्ट्रविरोधकानाम् पाठं पाठयितुम् आवश्यकम् - पर्रिकरः

पुणे - राष्ट्रराजधानयां स्थित्वा कथमेव जनाः राष्ट्रविरोधवक्तव्यं कर्तुम् साहसं धारयन्ति। येन केनापि समर्थनम् न चेत् एवं न संभवते। भविष्यकाले राष्ट्रविरोधवक्तव्यं कर्तुम् जनानाम् पाठं पाठयितुम् आवश्यकमस्तिइति राष्ट्रसंरक्षणमंत्रीवर्येण मनोहरपर्रिकरेन पुणेनगरे उक्तम। 
संरक्षणविषयाभ्यासकेन नितीनगोखलेवर्येण लिखितम् सियाचिन - धगधगते हिमकुंड‘ इति मराठी अपि च हिंदी भाषायाम् अनुवादितानि पुस्तकानि मोचयन् पर्रीकरवर्यः स्वविचारान् प्रकटितवान्। लेफ्टनंट जनरल संजयकुलकर्णीः (अवकाशप्राप्तः)एअर मार्शल भूषणगोखलेः (अवकाशप्राप्तः),'पुणे इंटरनॅशनल सेंटरसंस्थाउपाध्यक्षः डॉ. विजयकेळकरः अन्ये च गणमान्याः अवसरेsस्मिन् उपस्थिताः आसन्त। पत्रकारः प्राध्यापकश्च विनयचाटी एतत्पुस्तकस्य अनुवादकः अस्ति।
पर्रीकरवर्येण उक्तम् यत राष्ट्रनागरिकाः राष्ट्रप्रेमस्य प्रथमं पाठं स्वगृहे एव पठन्ति। ततः येन केन अपि राष्ट्रविरोधवक्तव्यं कृतम् चेत ते सोढुं न शक्नोन्ति।
केनचित् अभिनेताभार्याया यत् राष्ट्रविरोधी कथनम् कृतम् तत् जनानाम् न रुचितम् आसीत्। जनाः स्वयंस्फूर्त्या एव तस्य विरोधं कृतवन्त। कतिपय जनाः तस्य अभिनेताया अभिनितं विज्ञापितम् उत्पादनाः बहिष्कृतवन्तः। ततः विचारयामि यत् जनाः स्वयंमेव राष्ट्रविरोधकानाम् पाठं पाठयिष्यन्ति।,” एवमपि सः कथितवान्।
तेन उक्तम्, "सैन्यदलेsस्मिन् सैनिकानाम् नाहं सेवकभावेन पश्यामिअपि तां राष्ट्ररक्षकाः भावयामि। अन्य राष्ट्रापेक्षया भारते जनाः सेनाधिकारीनाम् आदरं दातुमुद्युक्ताः सन्ति। यः को अपि भाटकस्योपरि आक्रमणं करोति चेत् तं तथैव प्रत्त्युत्तरं दातुम् आवश्यकमस्ति। एतद्विषये विरोधः न कर्तव्यः। अस्माकं कृते प्रतिसिकः माणिकमिव अस्ति यं वयं वञ्चितुम् न शक्यामः।
भूषणगोखलेः अकथयत् यत्, "व्यूहरचनादृष्टया तथा च भौगोलिकदृष्टया सियाचिनप्रदेशः महत्त्वपूर्णः अस्ति। अतरेव पाकिस्तानचीन देशादयस्य दृष्टि तस्योपरि वर्तते।‘‘

No comments:

Post a Comment