कर्मण्येवाधिकारस्तु मा फलेषु कदाचन
विरला: हि ते भारतीयजना: ये वाक्यमिदम् न जानन्ति। प्रत्येकस्य भारतीयस्य कर्णे हृदये च विराजयन् मन्त्रोsयम्। अयं मन्त्रं अस्ति श्रीमद्भगवद्गीताया: ये आसहस्रवर्षात् भारतस्य हृद्देशे प्रतिष्ठति।
श्रीमद्भगवद्गीता न केवलं भारतस्य अपि तु विश्वसाहित्यस्य गगने सूर्यैव विराजते। गीताया ज्ञानप्रकाशेन अखिलं विश्वं द्योतित: अस्ति।
गीतायां श्लोकानां सप्तशती वर्तते। भारतीयानां जीवने सर्वदर्शनसारम् श्रीमद्भगवद्गीता प्रददाति। तत: एव गीता ईदृशी लोकप्रिया अभवत्। अस्या भाषाशैली अतीव सरला वर्तते। तेनैव अल्पशिक्षितानाम् जनानाम् अपि अस्या: अर्थम् अवगन्तुम् शक्यते।
अस्या विशेषता एवमस्ति यत् गीता कस्मिंश्चित् सम्प्रदायस्य मण्डनम् न करोति। कस्मिंश्चित् सम्प्रदायस्य निषेध: अपि न दृश्यते। अस्या: समन्वयकुशलता सर्वानपि आकर्षयति। समन्वय: हि गीताया: विशेष: वर्तते।
गीताया: सन्देश: क: अस्ति, एतस्मिन् विषये विदुषां महान् मतभेदो दृश्यते। आचार्यश्रीशंकरस्य कथनमस्ति यत् गीताया मुख्यत्वेन निवृत्तमार्गप्रतिपादनं अस्ति। अपरं च, आचार्यश्रीरामानुजस्य कथनमिदं यत् गीता प्रधानतया भक्तिं बोधयति। भक्त्या एव भगवन्तं प्राप्तुमर्हते, एवं तेन कथितम्। आधुनिककाले, लोकमान्य-बालगंगाधरतिलक: भिन्नं मतं प्रतिपादयत्। "कर्मयोगप्रतिपादनमेव गीताया: लक्ष्यमस्ति। मानवजीवनस्य साफल्यं कर्मानुष्ठानेव अस्ति,"एवम् तेन कथितमस्ति।
अपि च, श्रीअरविन्देन कथितम् अस्ति यत् गीताया न कश्चिद्विशिष्ट: मार्ग: प्रशंसितम् अस्ति। ज्ञानकर्मभक्तिसंगमादेव भगवन्तं प्राप्तुम् शक्यते मोक्षमपि प्राप्तुमर्हते, एवम् स: अकथयत्। "सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज। अहं त्वां सर्वपापेभ्य: मोक्षयिष्यामि मा शुच:" इति गीताया: महावाक्यं अस्ति, न तु "कर्मण्येवाधिकारम्" एवमपि तेन मण्डितम्।
No comments:
Post a Comment