लोकतन्त्रस्य इयं विडंबना अस्ति यत् जनाः एव शासकाः। जनेषु केचित् जनाः एव तेषां प्रतिनिधित्वं वहन्ति, केचित् अधिकारपदाः प्राप्स्यन्ति। अपि तु येषां अधिकारं लभ्यते ते शीघ्रमेव प्रजानां कष्टं विस्मरन्ति। लोकाभिमुखं कार्यमेव ते न जानन्ति। पुरातनकले केचन् राजानः स्वच्छन्दानुसारेण शासनं कुर्वन्ति स्म। ते यथेच्छं करान् विदधति स्म। यः कः अपि विरोधवाक्यं वदति चेत् तम् कारागृहवासं निश्चितं आसीत्। किं अधुना मन्त्रिणः तेभ्यः भिन्नाः सन्ति। अपवादेन एव। अस्माकं प्रजा कथं वर्तते इत्यपि ज्ञातुम् अनुत्सुकाः सन्ति ते। कस्यचित् का अपि समस्या असितुम् अर्हते एवम् परिभावः एव नास्ति। “अखिला सत्ता मयि वर्तते। को अपि माम् प्रश्नं प्रष्टुम् न अर्हति,” इति अधिकारीन् चिन्तयन्ति।
यस्य शासने प्रजा सन्तुष्टाः नास्ति तस्य राज्यं क्षयं प्रतिगच्छति इति भारते प्राचीना कल्पना। एतद्विषये नैकाः कथाः विद्यन्ति। एकपक्षतः ते तथा वर्तनं कुर्वन्ति अन्यच्च लोकतन्त्रकारणात् प्रजारञ्जनार्थं अपि यतन्ति। न हि, “वयं किदृशाः प्रयासाः कुर्मः” एवम् तेभ्यः जनानां प्रतितायते।
Apr 19, 2017
लोकतन्त्रस्य विडंबना
Labels:
लेखनम
Subscribe to:
Post Comments (Atom)
-
वायुपात्रस्य पेट्रोलादी द्रव्यस्य मूल्यानि च सर्वकारेण पुनरपि वर्धितानि. सामान्य जनानाम् कृते महत् कष्टानि जनयितुम् निर्णयम् एतत्. किं कर्तव...
-
भारतस्य राष्ट्रपतिपदं प्राप्तुम् रास्वसंघप्रमुख: मोहनभागवतवर्यं ॠत्वा अन्य: कोsपि योग्य: नास्ति, इति शिवसेनापक्षत: पुनरुच्चारं कृतम्। मुंबईन...
No comments:
Post a Comment