Oct 13, 2017

रामबाई उमाबाई च अनयो: नेट हाउस नोट हाउस रूपे परिवर्तितम्

विदिशा मण्डलस्य हिनोतिया ग्रामस्य रामबाई उमाबाई च एताभ्यां संरक्षिता कृषे: लाभं मिलति यत् तयो: नेट हाउस सम्प्रति नोट हाउस रूपे परिवर्तितम्। रामबाई वदति यत् यदा आरभ्य तस्या: क्षेत्रे जालान्विता: छद: स्थापिता, तदा आरभ्य शाकस्य उत्पादिता प्रचुरा वर्धिता। रामबाई उमाबाई च पूर्वे मुक्ताकाशे शाकानां कार्यं कुरुत: स्म। येन ताभ्यां नाममात्रं धनार्जनं भवति स्म। सम्प्रति जालान्वितं नेट स्थापितेन विगत् एकस्मात् वर्षात् अधिकम् उत्पादनं भवति च अतिरिक्तं लाभम् अपि वर्धितम्।
एते महिला: अनुमानत: एकम् एकड़ इत्यस्मिन् 2016 वर्षे नेट हाउस स्थापितवत्यौ। प्रथमे वर्षे एव कर्कटिका च शिमला मरीचिका उत्पादनं कृतत्यौ। एतेन एताभ्यां सार्ध एकं लक्षं रुप्यकाणाम् अतिरिक्तं लाभम् अभवत्। अस्मिन् वर्षे एते रक्तांग: च हरिता मरीचिका उत्पादनं कुरुत:। इदानीं पर्यन्तं प
\ चत्रिंशत् सहस्रं रुप्यकाणां रक्तांगा: विक्रयी कृता:। महिला द्वयो: कथनम् अस्ति यत् एतावत् अतिरिक्तं लाभं तु परम्परागतं शस्यै: अपि नैव भवति स्म। रामबाई उमाबाई च अधुना प्रत्येकं कृषकं स्वकीयं क्षेत्रे एकम् एकड़ इत्यस्मिन् नेट हाउस स्थापनस्य मंत्रणा ददत:।
एतयो: महिलयो: रुचिं दृष्ट्वा उद्यानिकी विभागस्य अधिकारिण: अपि अग्रे आगत्य एतयो: सहायताम् अकुर्वन्। नेट हाउस इत्यस्य व्यये एताभ्याम् अनुदानस्य रूपे प \चाशत् प्रतिशतं राशि: विभागम् उपलब्धं कारितवान्।

No comments:

Post a Comment