Oct 19, 2017

अस्माकम् ज्ञानम्

 भारतभूम्यां प्राचीनकाले यानि वस्तूनि अनुसंधानं कृतानि, तेषु एव अधुना अनुसंधानं भवति। पुष्पक विमानेन नीत्वा ब्रह्मास्त्रपर्यन्तस्य उल्लेखाः वयम् अस्माकं उल्लेखाः प्राचीनेषु ग्रन्थेषु मिलति। आधुनिकविज्ञानस्य यात्रा प्राचीनतमम् ज्ञानम् प्रति एव अस्ति, एवमपि कथयितुम् शक्यते। प्रसिद्धः आंग्ललेखकः डेन ब्राऊन स्वस्य 'दि लोस्ट सिम्बोल' इति पुस्तके लिखितवान् यत् वयम् प्राचीनम् ज्ञानम् एव पुनरपि अध्ययामः।विशेषतया भारतदेशात् एव अस्माकम् एवंविधम् ज्ञानम् प्राप्तुम् शक्यते, एवमपि सः लिखितवान्। 
अधुना शास्त्रेषु उल्लेखिताः सर्वे संस्कारा: विज्ञानपद्धत्या वर्तन्ते। इयम् पुरापरम्परा एव अंतरिक्षविज्ञानरूपेण अस्माभिः अग्रे नीता अस्ति। इदानीम् भारतेन एकत्वेन १०४ उपग्रहाः प्रक्षेपिताः सन्ति यस्मात् नव विश्वकीर्तिमानः स्थापितः।
सहस्रान् वर्षान् यावत् भारतवासिनः ज्ञानोपासकाः सन्ति। नानाविधशास्त्राणि तेभ्यः अधीतानि अस्ति। एतस्य ज्ञानस्य प्रमाणानि स्थाने-स्थाने, पदे-पदे दृश्यन्ते। न हि ज्ञानेन सदृशम् पवित्रमिह विद्यते एतत् वाक्यम् अस्माकम् देशस्य प्राणः वर्तते। ज्ञानमात्रेण सर्वपापक्षयः, ज्ञानात् एव उत्कर्षः भवति एषा उक्ति प्रसिद्धा अस्ति।
अस्य ज्ञानस्य अद्भुताविष्कारः अस्ति आयुर्वेदः। लक्षशः ज्ञानकणानि इतस्ततः वर्तन्ते। तेषाम् परिपालनम् संरक्षणम् च आवश्यकमस्ति। विशेषताया यत् स्थानम् आयुर्वेदाय प्राप्तुम् अर्हते तत् स्थानम् तम् अद्यावधि न प्राप्तम्। 

No comments:

Post a Comment