सर्वे जनाः राजकीय क्षेत्रं अधिकाराकाङ्क्षया एव प्रविशन्ति। अहं शासकः भविष्यामि, सांसदः भविष्यामि, मन्त्री भविष्यामि इति सर्वे चिन्तयन्ति। मन्त्रीपदं वा अद्य मुख्यमन्त्रीपदं प्राप्त्यर्थं जनाः किं न कुर्वन्ति? सर्वेषाम् आकाङ्क्षा इत्येव वर्तते। यः मन्त्रित्वम् प्राप्नोति सः मुख्यमन्त्रिः भवितुम् इच्छति। अतः मन्त्रित्वकाङ्क्षिणः सदा मुख्यमन्त्रिणो वा प्रधानमन्त्रिणो वा द्वारे तिष्ठन्ति।
केचन मन्त्रिणो तथा वर्तन्ते ये सदा भीताः सन्ति। स्वपदं नश्येत् इति तेषां भयम्। ग्रामं ग्रामं च गृहं गृहं गत्वा जनसमस्यां अवगन्तुम् मन्त्रिणां कर्तव्यम् वर्तते।
मन्त्री यः वा को वा भवतु, प्रजानां स्थितिः सदा सैव। मन्त्रिणां स्थितिः उत्तमा भविष्यति। तत्र न संशयः। मन्त्रिणः के अपि भवन्तु नाम, अस्माकं किं प्रयोजनम् इति जनाः तूष्णीं स्थास्यन्ति। लोकतन्त्रस्य कृते इयं स्थिति न समीचीनम्।
No comments:
Post a Comment