Apr 18, 2018

निर्वाचनं नाम लोकतन्त्रस्य उत्सवः


निर्वाचनं नाम लोकतन्त्रस्य उत्सवः। अस्मिन् उत्सवे जनाः उत्साहेण भागं निर्वहन्ति। स्वविवेकं उपयुज्य एव तेभिः मतदानं करणीयं इति वयं चिन्तयामः।
अपि तु अधुना धनलोभेण, वस्त्रलोभेण मद्यलोभेण वा मतदानं कारयितुम् प्रयासाः भवन्ति। नैकाः आमिषाः दत्त्वा केचनाभ्यार्थिना मतं प्राप्तुम् प्रयासाः कार्यन्ते। एतादृशाः प्रलोभनाः वर्जनीयाः इति शिक्षिताः जनाः कथयन्ति। धनादिना वस्तुभिः मोहिताः प्रजा मतं दातुं न अर्हन्ति।
य़ः कः अपि न्यायमार्गेण प्रजासेवां कर्तुम् उद्युक्तः अस्ति तस्मै एवं मतं देयम्। यस्य कर्माः योग्याः प्रतीयन्ते तमेव मतं दातव्यम्। अभ्यर्थिनां योग्यत्वं परिशील्य मतं देयम्। तस्य शीलं मुख्यं, न तु कुलम्। न तु तस्य जातिर्गणनीया।
अपि च को अपि नागरिकः मतदानं अकृत्वा न स्थातुम् अर्हति। मतदानं नाम नागरिकस्य पवित्रं कर्तव्यम्, लोकतन्त्रस्य प्रथमं चरणम्। तं आधारीकृत्य एव प्रजाप्रभुत्वम् भवन्ति। ममैकस्य मतेन किम् भविष्यन्ति इति केनापि न चिन्तनीयम्। बिन्दुभिरेव सिन्धुः सम्पद्यते। राष्ट्रनिर्माणे एकैकस्यापि बलं अपेक्षितम् अस्ति 

No comments:

Post a Comment