May 9, 2018

कर्णाटके विधानसभानिर्वाचनस्य चरमोत्कर्षः

कर्णाटके विधानसभानिर्वाचनाय प्रचाराभियानं चरमोत्कर्षे वर्तते। तत्र प्रचाराय दिवसद्वयात्मकः समयः अवशिष्टो अस्ति। विभिन्न राजनीतिकदलीय नेतारः मतदातृन् आक्रष्टुं श्रमरताः दृश्यन्ते। प्रधानमन्त्री नरेन्द्रमोदी बांगरपेटस्थले निर्वाचनसभायां कांग्रेसदलं आरोपितवान्। 
तेनोदीरतं यत् भारतीयजनतापक्षः दलित जनानां कृते आरक्षणस्य समर्थनं करोति। अपरत्र कांग्रेसाध्यक्षः राहुलगान्धीना बेंगलुरुनगरे शिल्पकर्मशालायां महिलाभिः साकं सम्भाषणं कृतम्। तत्र तेन मार्गीयप्रचाराभियानं कृतम् अस्ति। मुख्यमन्त्री सिद्धारमैया मैसुरुनगरे जनसभां संबोधयन् प्रोक्तवान् यत् एनडीएप्रशासनं दलितेषु उत्पीडनं कृतम्। 
राज्ये विधानसभानिर्वाचनाय शनिवासरं मतदानं भविष्यति, मे पञ्चदशदिवसे च मतगणना भविष्यति। 

No comments:

Post a Comment