Sep 6, 2019

समस्या इयमेव अस्ति

पुरुषा: महता कष्टेन धनं सम्पादयन्ति। तथापि एवं धनं सम्पाद्य अपि सुखीन: न भवन्ति। किमर्थम् एवं भवति स्यात्?

प्रथमं  कारणं तु एतत् वर्तते यत् सर्वत्र अपि स्वार्थसाधका: एव प्रबला: सन्ति। न कश्चित् कस्यचित् शृणोति। जना: परस्परस्य विचारं न कुर्वन्ति। यथा कथमपि स्वस्य कार्यपूर्ति भवेत् एवमेव तेषां उद्दिष्टं वर्तते। प्रसंगवशात् साहाय्यं आवश्यकम् अस्ति चेदपि तत्साहाय्यं न लभ्यते।
प्रत्येक: अन्यं संशयेन ईर्षया एव पश्यति। अस्मादेव कारणात् महता सम्पादितेन धनेन अपि ते तुष्टा: न भवन्ति। इतोsपि अधिकं प्राप्तुम् अर्हते, तदैव वयं सुखीन: स्याम: इति ते चिन्तयन्ति। प्रख्यात: लेखक: लिओतोल्स्तोयस्य एका कथा वर्तते - मनुष्यस्य कियत् भूमि आवश्यका अस्ति? तां कथां अनुसृत्य एव लोके व्यवहार: दृश्यते।
अस्मान् यावत् आवश्यकम् अस्ति तावत् धनं वयं प्राप्तुम् अर्हाम:, तथापि सा आवश्यकता कदा पूरिता भवति तावन्मात्रं लक्षणीयं वर्तते।
एतदेव ज्ञातुं बहव: जना: असमर्था: सन्ति। समस्या इयमेव अस्ति।

Jan 26, 2019


देशस्य सर्वान् अपि नागरिकान् प्रजाप्रभुत्वदिनस्य शुभाशयान् दातमु अहम् इच्छामि। प्रजाप्रभुत्वदिनं संवैधानिकाधिकारान् च कर्तव्यान् प्रति जागरूका: भवितुं प्रसङ्गः वर्तते। संवैधानिकं मूल्यानां रक्षाया: संकल्प: नेतुं पर्वम् अस्ति एतत्।
अस्माकं कर्तव्यं वर्तते यत् प्रदेशस्य विकासे सहभागिन: वयं भवामः। प्रत्येक: नागरिक: स्व कर्तव्यानां पालनं कुर्यात् यस्मात् देशः अग्रे वर्धापयेत्। एतत् प्रसङ्गः सामान्यजनानाम् आकाङ्क्षाणां उत्सवः अस्ति। प्रजाप्रभुत्वदिनस्य उत्सवः स्वकीयाधिकारविषये जागरूकाः भवितुं, कर्तव्यान् प्रति च संवेदनशील: भवितुम् अवसर: अस्ति। वत्सरे अस्मिन् गणतन्त्रदिनम् शनिवासरे आगतम् अस्ति। 
भारतदेशः १९४७ तमवर्षस्य आगष्ट्मासस्य १५ दिनाङ्के स्वतन्त्रः अभवत् । अनन्तरं प्रजाप्रभुत्वरीत्या अत्र प्रशासनं चलति स्म । यदा संविधाननिर्माणकार्यं समाप्तम् अभवत् तदा संविधानम् अङ्गिकृत्य देशे १९५० तमे वर्षे जनवरीमासस्य २६ दिनाङ्के भारतदेशं प्रजाप्रभुत्वराष्ट्रामिति धोषितवन्तः । तद्दिनादाराभ्य भारतदेशे भारतीय-संविधानरीत्या प्रशासनं प्रचलति ।

Jan 17, 2019

भारतीयसंस्कृते: मूलम्


समाजे परस्परसद्भावना, साम्प्रदायिकी शान्ति: च बन्धुत्वम् एव अस्माके भारतीयसंस्कृते: मूलम् अस्ति। विश्वे भारतम् एव केवलम् एतादृशः देशः अस्ति यत्र एतावत् विशालं वैविध्यं दृश्यन्ते। प्रत्येकस्य राज्यस्य स्वस्य परम्परा:, भाषा: तीज उत्सवा: सन्ति। तथापि ते सर्वेः एकत्त्वं प्रकटयन्ति एव। एतेषां फलस्वरूपम् एव पारस्परिकम् एकता। भारतदेशे समाजे भिन्नता: भवितुं नाम, तथापि अखिलः देशः त्रिवर्णध्वजस्य अध: एकत्त्वभावने स्थितः अस्ति। विश्वं भारतस्य केवला आर्थिकी शक्ते: नैव प्रत्युत् अत्रत्य अनेकतायाम् एकता, बन्धुत्वं च शान्ति: सदृशं मूल्यानां प्रशंसक: अस्ति। एते अस्मिन् प्राचीनदेशे एकतायाः नानारूपाविष्कारं दृश्यते। एतदेव अस्ति विश्वे भारतस्य परिचयम्। एषा विविधता एव भारतीयसंस्कृतिं सुदृढ़ा करोति एवमपि कथितुम् शक्यते। नैकाः शक्तयः वर्तन्ति ये अस्माकम् एतद् परिचये प्रहारं कर्तुं प्रयासं कुर्वन्ति परं च अस्माकं स्वभावम् एतादृशम् अस्ति यत् अस्माकं विचारधारायां कदापि दुर्विचारं नैव आगच्छति। एतेषां फलस्वरूपम् एव पारस्परिकम् एकता अस्ति।

Dec 25, 2018

क्रिसमसपर्वम्

christmas sanskrit
क्रिसमसपर्म् अद्य धार्मिकोत्साहेन हर्षोल्लासेन च सह आमान्यते। समस्त विश्वे ईसाई धर्मावलम्बिनैः जनैः क्राईस्टस्य जन्मनः उपलक्ष्ये क्रिसमसपर्व आमान्यते। अवसरेऽस्मिन्‌ गृहाणि क्रिसमस-पादपैः, कर्गदेन निर्मितैः नक्षत्रैः पुष्पैश्च सज्जीक्रियन्ते। उपहाराणां आदानं-प्रदानं च भवति। मध्यरात्रौ गिरजागृहेषु प्रार्थनासभा समायोज्यते। तत्र जनाः ईसा-मसीहस्य स्वागते मङ्गलगीतं गायन्ति। राष्ट्रपतिना रामनाथ कोविन्देन, उपराष्ट्रपतिना एम. वैकैया नायडुना च क्रिसमस पर्वणि जनाः अभिनन्दिताः। क्रिस्मस् इत्येतत् पर्व क्रैस्तमतावलम्बिनां महत् पर्व वर्तते । क्रिस्मस् क्रिस्तजयन्ती इत्येतत् क्रैस्तगुरोः येसुक्रिस्तस्य जन्म दिनम्।

May 9, 2018

कर्णाटके विधानसभानिर्वाचनस्य चरमोत्कर्षः

कर्णाटके विधानसभानिर्वाचनाय प्रचाराभियानं चरमोत्कर्षे वर्तते। तत्र प्रचाराय दिवसद्वयात्मकः समयः अवशिष्टो अस्ति। विभिन्न राजनीतिकदलीय नेतारः मतदातृन् आक्रष्टुं श्रमरताः दृश्यन्ते। प्रधानमन्त्री नरेन्द्रमोदी बांगरपेटस्थले निर्वाचनसभायां कांग्रेसदलं आरोपितवान्। 
तेनोदीरतं यत् भारतीयजनतापक्षः दलित जनानां कृते आरक्षणस्य समर्थनं करोति। अपरत्र कांग्रेसाध्यक्षः राहुलगान्धीना बेंगलुरुनगरे शिल्पकर्मशालायां महिलाभिः साकं सम्भाषणं कृतम्। तत्र तेन मार्गीयप्रचाराभियानं कृतम् अस्ति। मुख्यमन्त्री सिद्धारमैया मैसुरुनगरे जनसभां संबोधयन् प्रोक्तवान् यत् एनडीएप्रशासनं दलितेषु उत्पीडनं कृतम्। 
राज्ये विधानसभानिर्वाचनाय शनिवासरं मतदानं भविष्यति, मे पञ्चदशदिवसे च मतगणना भविष्यति। 

परिपूरितं स्वप्नम्

एकस्य ग्रामस्य कश्चित् निवासी स्वकीयं परिजनान् कुटीरात् निष्कास्य स्वकीयं सुदृढ़ं गृहस्य उपलब्धि: दत्तवान्। तस्य परिजना: कुटीरे जीवनं यापितवन्त:। सर्वकारस्य योजना तस्य परिवाराय सुदृढ़ं गृहं निर्माणे प्रचुरा सहायतां कृतवान्।
ग्रामस्य अधिकारिन् एकदा तं एकस्मिन् दिवसे विज्ञापितवान् यत् तस्मै सम्प्रति कुटीरे वास: नैव करणीय:। सर्वकारेन तस्य नामं योजनायां युक्तमासित्, तदा तं विश्वासम् एव नैव अभवत्। 
तस्य कृते अपि नि:शुल्के सुदृढ़ं गृहं मिलितुं शक्नोति, कुटीरस्य समस्याभि: मुक्ति: मिलितुं शक्नोति, एवं तेन कदापि चिन्तितम् नासीत्। 
यदा तस्मै सुदृढ़ं गृहस्य स्वीकृते: कर्गदम् अमिलत्, तर्हि प्रसन्नतया रोमांचित: अभवत् , तस्य नेत्रयो: अश्रूणि निर्गतानि।
सः स्वयमेव परिश्रमं कृत्वा स्वरुचे: गृहं केवलं षड् मासेसु निर्मीय सज्जं कृतवान्। अधुना स्वकीयं परिवारेण सह प्रसन्नतया जीवनं यापनं करोति।