Apr 18, 2018

निर्वाचनं नाम लोकतन्त्रस्य उत्सवः


निर्वाचनं नाम लोकतन्त्रस्य उत्सवः। अस्मिन् उत्सवे जनाः उत्साहेण भागं निर्वहन्ति। स्वविवेकं उपयुज्य एव तेभिः मतदानं करणीयं इति वयं चिन्तयामः।
अपि तु अधुना धनलोभेण, वस्त्रलोभेण मद्यलोभेण वा मतदानं कारयितुम् प्रयासाः भवन्ति। नैकाः आमिषाः दत्त्वा केचनाभ्यार्थिना मतं प्राप्तुम् प्रयासाः कार्यन्ते। एतादृशाः प्रलोभनाः वर्जनीयाः इति शिक्षिताः जनाः कथयन्ति। धनादिना वस्तुभिः मोहिताः प्रजा मतं दातुं न अर्हन्ति।
य़ः कः अपि न्यायमार्गेण प्रजासेवां कर्तुम् उद्युक्तः अस्ति तस्मै एवं मतं देयम्। यस्य कर्माः योग्याः प्रतीयन्ते तमेव मतं दातव्यम्। अभ्यर्थिनां योग्यत्वं परिशील्य मतं देयम्। तस्य शीलं मुख्यं, न तु कुलम्। न तु तस्य जातिर्गणनीया।
अपि च को अपि नागरिकः मतदानं अकृत्वा न स्थातुम् अर्हति। मतदानं नाम नागरिकस्य पवित्रं कर्तव्यम्, लोकतन्त्रस्य प्रथमं चरणम्। तं आधारीकृत्य एव प्रजाप्रभुत्वम् भवन्ति। ममैकस्य मतेन किम् भविष्यन्ति इति केनापि न चिन्तनीयम्। बिन्दुभिरेव सिन्धुः सम्पद्यते। राष्ट्रनिर्माणे एकैकस्यापि बलं अपेक्षितम् अस्ति।  

Mar 29, 2018

इयं स्थिति न समीचीनम्।

सर्वे जनाः राजकीय क्षेत्रं अधिकाराकाङ्क्षया एव प्रविशन्ति। अहं शासकः भविष्यामि, सांसदः भविष्यामि, मन्त्री भविष्यामि इति सर्वे चिन्तयन्ति। मन्त्रीपदं वा अद्य मुख्यमन्त्रीपदं प्राप्त्यर्थं जनाः किं न कुर्वन्ति?  सर्वेषाम् आकाङ्क्षा इत्येव वर्तते। यः मन्त्रित्वम् प्राप्नोति सः मुख्यमन्त्रिः भवितुम् इच्छति। अतः मन्त्रित्वकाङ्क्षिणः सदा मुख्यमन्त्रिणो वा प्रधानमन्त्रिणो वा द्वारे तिष्ठन्ति। 
केचन मन्त्रिणो तथा वर्तन्ते ये सदा भीताः सन्ति। स्वपदं नश्येत् इति तेषां भयम्। ग्रामं ग्रामं च गृहं गृहं गत्वा जनसमस्यां अवगन्तुम् मन्त्रिणां कर्तव्यम् वर्तते।
मन्त्री यः वा को वा भवतु, प्रजानां स्थितिः सदा सैव। मन्त्रिणां स्थितिः उत्तमा भविष्यति। तत्र न संशयः। मन्त्रिणः के अपि भवन्तु नाम, अस्माकं किं प्रयोजनम् इति जनाः तूष्णीं स्थास्यन्ति। लोकतन्त्रस्य कृते इयं स्थिति न समीचीनम्।

Feb 1, 2018

गान्धीवर्य: अस्माकं आदर्श:

गांधिन: सम्पूर्णं जीवनम् एकम् आंदोलनस्य इव आसीत्। अद्य अस्माकं संस्कृति: च परम्परा: संरक्षणस्य चेतावनी अस्ति। एतासां चेतावनीनां समक्षम् अस्मान् महात्मा गांधिन: जीवनं दर्शनेन शिक्षां गृहीत्वा च आदर्शेषु चलित्वा एव करणीयम्। महात्मागांधिन: पुण्यं तिथौ आयोजिता सर्वधर्मं प्रार्थनासभा एका आयोजिता आसीत्।  सर्वे: महात्मा गांधिन: मूर्तौ सूत्रस्य माला धारयित्वा श्रद्धांजलि: दत्तवन्त: च पुष्पांजलि: अर्पिता कृतवन्त:। गांधिनस्य सत्यम्, अहिंसा च सर्वधर्मं समभावस्य आदर्श: अद्य अपि प्रासंगिक: सन्ति। अद्यतन दिवसे, महात्मा गांधिनम् अस्माकं सत्या श्रद्धांजलि: एषैव भविष्यति यत् वयं सर्वे मानवताया: रक्षया सह राष्ट्रीया एकता च प्राचीना भारतीया संस्कृतिं सुदृढ़ा करणस्य संकल्प: नयेम्। महात्मा गांधिन: आदर्शान् आत्मसातं कुर्यु:। गांधीवर्य: जीवनपर्यन्तं तस्य सत्यस्य आग्रही आसीत् यस्मै स: ईश्वर: मानयति स्म। स: वदति स्म 'पूर्वे अहं जानाति स्म यत् ईश्वर: एव सत्यम् अस्ति, अधुना ज्ञातवान् यत् सत्यम् एव ईश्वर: अस्ति। गांधिन: सत्याग्रहम् अस्यैव ईश्वरस्य आराधना आसीत्। अहिंसाया: एष: अर्चक: जीवने यद् प्रकाशं प्रकाशितवान्, तद् अद्य अपि मनुष्यताया: मार्गम् आलोकितं करोति।

Dec 17, 2017

श्वः किं भविष्यति?

एकं विश्वं वर्तते यत् निर्वाचनपरिणामस्य अनुमाना:, भविष्यवाणी तथा च वदन्त्याम् आधृत्य एव जीवति। अस्मिन् विश्वस्य नागरिका: के? स्वयंमन्या: राजनीतिनिरीक्षका:, पत्रकारा:, ज्योतिषय: तथा च अन्या। एतादृशी अपि जना: सन्ति ये यत्र प्रचलति, तत्रत: शतयोजनं दूरे वसति सति अपि तत्रस्था: मतदातार: किं इच्छन्ति एवं शपथेन कथयन्ति। इदानीमपि एवमेव वर्तयन् अस्ति। वास्तवात् किं भविष्यति, इति मतदानयन्त्रानि एव जानन्ति।

Nov 13, 2017

परिवर्तनं नाम सृष्टिनियमः


चीनदेशस्य विद्वान् कन्फ्यूशियसः कथयति यत् ये कदापि न परिवर्तयन्ति ते बुद्धिमानाः सन्ति अथवा तु ते अतिमूर्खाः सन्ति। विचारस्य दृढता श्लाघनीया एव अस्ति, तथापि देशकालपरिस्थित्यानुसारेण परिवर्तनं अपि साहाय्यकं भवति। समयेन सह परिवर्तनं स्वाभाविकं वर्तते।
परिवर्तनं सदैव आव्हानात्मकं वर्तते, न कदापि सुलभं। परिवर्तनं कारयनं अनिच्छुकाः वयं सर्वे यदा कदा वा तस्य प्रतिकारः कुर्यामः। एतत् निश्चितं अस्ति यत् तथा कृतेन वयं सचेताः भवामः, न तु बुद्धिहिनाः। स्वप्राणरक्षणं प्रत्येकस्य जीवस्य अधिकारः वर्तते। तथैव केनापि परिवर्तनेन आत्मनि कुठाराघातं नैव भवेत्, इति सावधानतया वर्तयितुम् कर्तव्यः वर्तते।


सामान्यतया समायोजनस्य आवश्यकता कदा वर्तते एवं वयं जानामः। तत् कृतीं करणार्थं वयं कालहरणं अपि कुर्यामः येन तस्य समयं अग्रे प्रेषयितुं शक्यते। तस्मात् अपि एवं कथितुम् शक्यते यत् वयं सुज्ञाः स्मः?
अस्मात् केचित् जनाः एव नवताविरोधस्य कृते ‘सुज्ञता’ शब्दं प्रयोक्तुम् शन्नोन्ति। किमपि परिवर्तनं सम्मुखी कर्तुं अस्माकं इच्छा अस्ति वा न वा, तत् परिवर्तनं भविष्यति एव। त्वं निमित्तमात्रः भव इति भगवद्गीतायां श्रीकृष्णेन एव कथितं अस्ति ननु। देवाभिःवयं लाभं प्राप्तुम शक्नुमः येन स्वस्य विचाराः अस्माभिः साकाराः कर्तुं शक्यन्ते।

दृष्टिकोणे परिवर्तनम् कृत्वा एव जीवने अद्भुतं परिवर्तनं कर्तुं शक्यते केनापि। परिवर्तनं नाम सृष्टिनियमः। तस्य स्वागतं एव कर्तव्यम्।

Nov 7, 2017

देवदर्शनात् देशदर्शनं

देवदर्शनं भारतीयजनानां कृते महत्त्वपूर्णं अस्ति। देवस्य दर्शनं कर्तुम् जनाः तीर्थस्थलं सन्दर्शयन्ति। ततः ते तीर्थयात्रा कुर्वन्ति तस्मात् च तीर्थयात्राया एव देशदर्शनं कुर्वन्ति। इतिहासपूर्वकालात् एव जनतायाः अभ्यासः आसीत् अयम्। यात्रायाः मार्गः कदापि न सुलभः आसीत्। एवंविधे अपि जनाः प्राचीनकालात् एव गमयन् आसन्तः। अधुना तु यात्रासौकर्यात् ते परस्परप्रदेशं वारंवारं गच्छन्ति। एकस्मात् अधिकं स्थानानां भ्रमणं कर्तुं नैकाः जनाः सन्ति। कतिपयजनाः मम परिचिताः सन्ति ये प्रतिवर्षं अनन्यतमं नवं स्थानं गच्छन्ति। एतत्कारणादेव देशे पर्यटनोद्योगः वर्धयन् अस्ति।
अनेकानि तीर्थस्थलानि सन्ति येषां समीपे स्थितानि ऐतिहासिकस्थानानि अपि दर्शनीयानि सन्ति। तेषां दर्शनात् अनायासेन एव देशदर्शनं अपि भवति। यात्रिण: तीर्थस्थानस्य विषये विवरणानि लभ्यते।
अस्माकं देशः अद्भुतः अस्ति। अत्र सर्वे धर्मा: च समुदायानां जना: मिलित्वा शान्तिपूर्वकं वसन्ति। प्रत्येकस्य राज्यस्य का अपि विशेषता वर्तते। यथा महाराष्ट्रराज्ये नैकाः दुर्गाः सन्ति, तमिलनाडुराज्ये दर्शनीयानि देवालयानि सन्ति। केरलप्रान्तेऽस्मिन् नारिकेलवृक्षभूषितः सागरतीरः लोके प्रसिद्धः अस्ति। विशेषतया रेलयानेन गमनात् महती आनन्दः लभ्यते यतः सर्वथा भारतीयभूमिं द्रष्टुम् अवसरं लभ्यते।
पर्यटनं माम् अतीव रोचते। गते सप्ताहे तेलंगाणा तमिलनाडु इति राज्यद्वयं मया अटितम्। हैद्राबाद, चेन्नई अपि च पुदुच्चेरी नगरानि वीक्षितानि। पुदुच्चेर्यां सागरतीरं माम् आकर्षयन्ति। समये समये नाना राज्यानि द्रष्टुम् उद्योक्तो अहम्। एतस्य देशस्य नागरिक: भूते सति गर्वम् अस्ति मे। 

Oct 22, 2017

पत्रकाराः अपायाश्च

प्रपञ्चे सर्वत्र पत्रकाराः अपाये वर्तन्ते इति प्रतीतायते। पत्रकाराः नाम विशिष्टा जनाः। महता कष्टेन  ते नानाप्रदेशेषु गच्छन्ति, नानाविधान् कार्यम् कुर्वन्ति च। स्वप्राणान् अपि अगणयित्वा वृत्तान्तान् संगृह्णन्ति, जनेभ्यः समक्षम् प्रदर्शयन्ति च। 
जनेभ्यः सत्यं वक्तव्यम् इति वृत्तान्तपत्रिकाणाम् प्रथमम् कर्तव्यम्। प्रवाहैः परिप्लुते स्थले गत्वा विषयान् ज्ञात्वा चित्राणि संगृह्य ते शीघ्रम् जनेभ्यः नित्यम् निवेदयन्ति। नैतावदेव। यदा सर्वकारः कर्तव्यपालने स्खलति, यदा मन्त्रिणो वा अधिकारिणो वा भ्रष्टाचारम् कुर्वन्ति, यदा च स्वजनपक्षपातेन निर्णयान् विदधति तदा पत्रकाराः तान् प्रकाशे नीत्वा जनविदितान् कुर्वन्ति। एतादृशे सन्दर्भे प्रदर्शितदोषैः क्रुद्धाः प्रबलाः जनाः पत्रकारानाम् शत्रवो भवन्ति। येन केनापि मार्गेन पापिनः पत्रकाराणाम् मौनम् साधयितुम् प्रयतन्ते। प्रलोभनेन वा त्रासनेन वा पत्रकारान् दमयितुम् यदा न शक्नुवन्ति, तदा प्रबलाः शक्तयः पत्रकाराप्राणहरणे अपि प्रवर्तन्ते। प्रपञ्चस्य नानाराष्ट्रेषु पत्रकाराः एवम् हताः। भारतवर्षे अपि तादृशानि प्रकरणानि अभूवन्, भवन्ति च। यदा पत्रकाराणाम् वदन पिधीयते, तदा नास्ति प्रजाप्रभुत्वम्। प्रजाप्रभुत्वस्य रक्षायै पत्रकारेभ्यः सुरक्षा प्रदेया। ते हि दोषप्रख्यापनेन सर्वकारम् शोभने समीचीने पथि निनीषन्ति। पत्रकाराणाम् क्षेमम् यदा सर्वकारो वहति, तदैव प्रजाप्रभुत्वम् रक्षितम् भवति।
पत्रकारः एतादृशः भवेत् यः दुष्टान् भ्रामयति स्म किन्तु सज्जनानां सदैव मार्गदर्शनं करोति। समाजे व्याप्तानि दूषणानि प्रकटियुतम् दायित्वम् पत्रकाराणां अस्ति। सामाजिकैक्यस्य सामरस्यस्य देशस्य ऐक्यस्य अखण्डतायाः च कृते स्वकीयां भूमिकां ते निर्वहेयुः।